॥ ॐ श्री गणपतये नमः ॥

६० सर्गः

तानुवाच हरिश्रेष्ठो हनूमान्वानरर्षभःअव्यग्रमनसो यूयं मधु सेवत वानराः

श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदःप्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु

अवश्यं कृतकार्यस्य वाक्यं हनुमतो मयाअकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम्

अन्दगस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाःसाधु साध्विति संहृष्टा वानराः प्रत्यपूजयन्

पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम्जग्मुर्मधुवनं यत्र नदीवेग इव द्रुतम्

ते प्रहृष्टा मधुवनं पालानाक्रम्य वीर्यतःअतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा मैथिलीम्

उत्पत्य ततः सर्वे वनपालान्समागताःताडयन्ति स्म शतशः सक्तान्मधुवने तदा

मधूनि द्रोणमात्राणि बहुभिः परिगृह्य तेघ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे

केचित्पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाःमधूच्चिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः

अपरे वृक्षमूलेषु शाखां गृह्य व्यवस्थितःअत्यर्थं मदग्लानाः पर्णान्यास्तीर्य शेरते१०

उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत्क्षिपन्त्यपि तथान्योन्यं स्खलन्त्यपि तथापरे११

केचित्क्ष्वेडान्प्रकुर्वन्ति केचित्कूजन्ति हृष्टवत्हरयो मधुना मत्ताः केचित्सुप्ता महीतले१२

येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तुतेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः१३

जानुभिश्च प्रकृष्टाश्च देवमार्गं दर्शिताःअब्रुवन्परमोद्विग्ना गत्वा दधिमुखं वचः१४

हनूमता दत्तवरैर्हतं मधुवनं बलात्वयं जानुभिः कृष्टा देवमार्गं दर्शिताः१५

ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरःहतं मधुवनं श्रुत्वा सान्त्वयामास तान्हरीन्१६

एतागच्छत गच्छामो वानरानतिदर्पितान्बलेनावारयिष्यामो मधु भक्षयतो वयम्१७

श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाःपुनर्वीरा मधुवनं तेनैव सहिता ययुः१८

मध्ये चैषां दधिमुखः प्रगृह्य सुमहातरुम्समभ्यधावद्वेगेना ते सर्वे प्लवंगमाः१९

ते शिलाः पादपांश्चापि पाषाणांश्चापि वानराःगृहीत्वाभ्यागमन्क्रुद्धा यत्र ते कपिकुञ्जराः२०

ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत्त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः२१

वृक्षस्थांश्च तलस्थांश्च वानरान्बलदर्पितान्अभ्यक्रामन्त ते वीराः पालास्तत्र सहस्रशः२२

अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाःअभ्यधावन्त वेगेन हनूमत्प्रमुखास्तदा२३

तं सवृक्षं महाबाहुमापतन्तं महाबलम्आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः२४

मदान्धश वेदैनमार्यकोऽयं ममेति सःअथैनं निष्पिपेषाशु वेगवद्वसुधातले२५

भग्नबाहुर्विमुखो विह्वलः शोणितोक्षितःमुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः२६

कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभःउवाचैकान्तमागम्य भृत्यांस्तान्समुपागतान्२७

एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरःसुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति२८

सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवअमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्२९

इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनःपितृपैतामहं दिव्यं देवैरपि दुरासदम्३०

वानरानिमान्सर्वान्मधुलुब्धान्गतायुषःघातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान्३१

वध्या ह्येते दुरात्मानो नृपाज्ञा परिभाविनःअमर्षप्रभवो रोषः सफलो नो भविष्यति३२

एवमुक्त्वा दधिमुखो वनपालान्महाबलःजगाम सहसोत्पत्य वनपालैः समन्वितः३३

निमेषान्तरमात्रेण हि प्राप्तो वनालयःसहस्रांशुसुतो धीमान्सुग्रीवो यत्र वानरः३४

रामं लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव समप्रतिष्ठां जगतीमाकाशान्निपपात ३५

निपत्य महावीर्यः सर्वैस्तैः परिवारितःहरिर्दधिमुखः पालैः पालानां परमेश्वरः३६

दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम्सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत्३७

इति श्रीरामायणे सुन्दरकाण्डे षष्टितमः सर्गः६०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved