॥ ॐ श्री गणपतये नमः ॥

५९ सर्गः

ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसःअङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः

प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराःमहेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः

मेरुमन्दरसंकाशा मत्ता इव महागजाःछादयन्त इवाकाशं महाकाया महाबलाः

सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम्हनूमन्तं महावेगं वहन्त इव दृष्टिभिः

राघवे चार्थनिर्वृत्तिं भर्तुश्च परमं यशःसमाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः

प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनःसर्वे रामप्रतीकारे निश्चितार्था मनस्विनः

प्लवमानाः खमाप्लुत्य ततस्ते काननौक्षकःनन्दनोपममासेदुर्वनं द्रुमलतायुतम्

यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्

यद्रक्षति महावीर्यः सदा दधिमुखः कपिःमातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः

ते तद्वनमुपागम्य बभूवुः परमोत्कटाःवानरा वानरेन्द्रस्य मनःकान्ततमं महत्१०

ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः११

ततः कुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन्अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे१२

ततश्चानुमताः सर्वे संप्रहृष्टा वनौकसःमुदिताश्च ततस्ते प्रनृत्यन्ति ततस्ततः१३

गायन्ति केचित्प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित्पतन्ति केचिद्विचरन्ति केचित्प्लवन्ति केचित्प्रलपन्ति केचित्१४

परस्परं केचिदुपाश्रयन्तेपरस्परं केचिदतिब्रुवन्तेद्रुमाद्द्रुमं केचिदभिप्लवन्तेक्षितौ नगाग्रान्निपतन्ति केचित्१५

महीतलात्केचिदुदीर्णवेगामहाद्रुमाग्राण्यभिसंपतन्तेगायन्तमन्यः प्रहसन्नुपैतिहसन्तमन्यः प्रहसन्नुपैति१६

रुदन्तमन्यः प्ररुदन्नुपैतिनुदन्तमन्यः प्रणुदन्नुपैतिसमाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कट सत्त्वचेष्टम् चात्र कश्चिन्न बभूव मत्तो चात्र कश्चिन्न बभूव तृप्तो१७

ततो वनं तत्परिभक्ष्यमाणंद्रुमांश्च विध्वंसितपत्रपुष्पान्समीक्ष्य कोपाद्दधिवक्त्रनामानिवारयामास कपिः कपींस्तान्१८

तैः प्रवृद्धैः परिभर्त्स्यमानोवनस्य गोप्ता हरिवीरवृद्धःचकार भूयो मतिमुग्रतेजावनस्य रक्षां प्रति वानरेभ्यः१९

उवाच कांश्चित्परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जघानसमेत्य कैश्चित्कलहं चकारतथैव साम्नोपजगाम कांश्चित्२०

तैर्मदाच्चाप्रतिवार्य वेगैर्बलाच्च तेनाप्रतिवार्यमाणैःप्रधर्षितस्त्यक्तभयैः समेत्यप्रकृष्यते चाप्यनवेक्ष्य दोषम्२१

नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समाप्नुवन्तःमदात्कपिं तं कपयः समग्रामहावनं निर्विषयं चक्रुः२२

इति श्रीरामायणे सुन्दरकाण्डे एकोनषष्टितमः सर्गः५९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved