तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत।जाम्बवत्प्रमुखान्सर्वाननुज्ञाप्य महाकपीन्॥ १
अस्मिन्नेवंगते कार्ये भवतां च निवेदिते।न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ॥ २
अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्।तां लङ्कां तरसा हन्तुं रावणं च महाबलम्॥ ३
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः।कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः॥ ४
अहं तु रावणं युद्धे ससैन्यं सपुरःसरम्।सपुत्रं विधमिष्यामि सहोदरयुतं युधि॥ ५
ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा।यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे।तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान्॥ ६
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्॥ ७
मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा।देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान्॥ ८
सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि।न जाम्बवन्तं समरे कम्पयेदरिवाहिनी॥ ९
सर्वराक्षससंघानां राक्षसा ये च पूर्वकाः।अलमेको विनाशाय वीरो वायुसुतः कपिः॥ १०
पनसस्योरुवेगेन नीलस्य च महात्मनः।मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः॥ ११
सदेवासुरयुद्धेषु गन्धर्वोरगपक्षिषु।मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा॥ १२
अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ।पितामहवरोत्सेकात्परमं दर्पमास्थितौ॥ १३
अश्विनोर्माननार्थं हि सर्वलोकपितामहः।सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा॥ १४
वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम्।सुराणाममृतं वीरौ पीतवन्तौ प्लवंगमौ॥ १५
एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम्।लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः॥ १६
अयुक्तं तु विना देवीं दृष्टबद्भिः प्लवंगमाः।समीपं गन्तुमस्माभी राघवस्य महात्मनः॥ १७
दृष्टा देवी न चानीता इति तत्र निवेदनम्।अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः॥ १८
न हि वः प्लवते कश्चिन्नापि कश्चित्पराक्रमे।तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः॥ १९
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता।किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्॥ २०
तमेवं कृतसंकल्पं जाम्बवान्हरिसत्तमः।उवाच परमप्रीतो वाक्यमर्थवदर्थवित्॥ २१
न तावदेषा मतिरक्षमा नोयथा भवान्पश्यति राजपुत्र।यथा तु रामस्य मतिर्निविष्टातथा भवान्पश्यतु कार्यसिद्धिम्॥ २२
इति श्रीरामायणे सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८