एतदाख्यानं तत्सर्वं हनूमान्मारुतात्मजः।भूयः समुपचक्राम वचनं वक्तुमुत्तरम्॥ १
सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः।शीलमासाद्य सीताया मम च प्लवनं महत्॥ २
आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः।तपसा धारयेल्लोकान्क्रुद्धा वा निर्दहेदपि॥ ३
सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः।यस्य तां स्पृशतो गात्रं तपसा न विनाशितम्॥ ४
न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती।जनकस्यात्मजा कुर्यादुत्क्रोधकलुषीकृता॥ ५
अशोकवनिकामध्ये रावणस्य दुरात्मनः।अधस्ताच्छिंशपावृक्षे साध्वी करुणमास्थिता॥ ६
राक्षसीभिः परिवृता शोकसंतापकर्शिता।मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा॥ ७
अचिन्तयन्ती वैदेही रावणं बलदर्पितम्।पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी॥ ८
अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा।अनन्यचित्ता रामे च पौलोमीव पुरंदरे॥ ९
तदेकवासःसंवीता रजोध्वस्ता तथैव च।शोकसंतापदीनाङ्गी सीता भर्तृहिते रता॥ १०
सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः।राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदा वने॥ ११
एकवेणीधरा दीना भर्तृचिन्तापरायणा।अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे॥ १२
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया।कथंचिन्मृगशावाक्षी विश्वासमुपपादिता॥ १३
ततः संभाषिता चैव सर्वमर्थं च दर्शिता।रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता॥ १४
नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा॥ १५
यन्न हन्ति दशग्रीवं स महात्मा दशाननः।निमित्तमात्रं रामस्तु वधे तस्य भविष्यति॥ १६
एवमास्ते महाभागा सीता शोकपरायणा।यदत्र प्रतिकर्तव्यं तत्सर्वमुपपाद्यताम्॥ १७
इति श्रीरामायणे सुन्दरकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७