॥ ॐ श्री गणपतये नमः ॥

५३ सर्गः

संदीप्यमानां विध्वस्तां त्रस्तरक्षो गणां पुरीम्अवेक्ष्य हानुमाँल्लङ्कां चिन्तयामास वानरः

तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायतलङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया

धन्यास्ते पुरुषश्रेष्ठ ये बुद्ध्या कोपमुत्थितम्निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा

यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकीदग्धा तेन मया भर्तुर्हतं कार्यमजानता

यदर्थमयमारम्भस्तत्कार्यमवसादितम्मया हि दहता लङ्कां सीता परिरक्षिता

ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयःतस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः

विनष्टा जानकी व्यक्तं ह्यदग्धः प्रदृश्यतेलङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी

यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात्इहैव प्राणसंन्यासो ममापि ह्यतिरोचते

किमग्नौ निपताम्यद्य आहोस्विद्वडवामुखेशरीरमाहो सत्त्वानां दद्मि सागरवासिनाम्

कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरःतौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना१०

मया खलु तदेवेदं रोषदोषात्प्रदर्शितम्प्रथितं त्रिषु लोकेषु कपितमनवस्थितम्११

धिगस्तु राजसं भावमनीशमनवस्थितम्ईश्वरेणापि यद्रागान्मया सीता रक्षिता१२

विनष्टायां तु सीतायां तावुभौ विनशिष्यतःतयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति१३

एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलःधर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्१४

इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः१५

तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहःरोषदोषपरीतात्मा व्यक्तं लोकविनाशनः१६

इति चिन्तयतस्तस्य निमित्तान्युपपेदिरेपूरमप्युपलब्धानि साक्षात्पुनरचिन्तयत्१७

अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते१८

हि धर्मान्मनस्तस्य भार्याममिततेजसःस्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः१९

नूनं रामप्रभावेन वैदेह्याः सुकृतेन यन्मां दहनकर्मायं नादहद्धव्यवाहनः२०

त्रयाणां भरतादीनां भ्रातॄणां देवता यारामस्य मनःकान्ता सा कथं विनशिष्यति२१

यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति२२

तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरिअपि सा निर्दहेदग्निं तामग्निः प्रधक्ष्यति२३

तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्शुश्राव हनुमान्वाक्यं चारणानां महात्मनाम्२४

अहो खलु कृतं कर्म दुर्विषह्यं हनूमताअग्निं विसृजताभीक्ष्णं भीमं राक्षससद्मनि२५

दग्धेयं नगरी लङ्का साट्टप्राकारतोरणाजानकी दग्धेति विस्मयोऽद्भुत एव नः२६

निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैःऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः२७

ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वाप्रत्यक्षतस्तां पुनरेव दृष्ट्वाप्रतिप्रयाणाय मतिं चकार२८

इति श्रीरामायणे सुन्दरकाण्डे त्रिपञ्चाशः सर्गः५३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved