वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः।वर्धमानसमुत्साहः कार्यशेषमचिन्तयत्॥ १
किं नु खल्वविशिष्टं मे कर्तव्यमिह साम्प्रतम्।यदेषां रक्षसां भूयः संतापजननं भवेत्॥ २
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः।बलैकदेशः क्षपितः शेषं दुर्गविनाशनम्॥ ३
दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम्।अल्पयत्नेन कार्येऽस्मिन्मम स्यात्सफलः श्रमः॥ ४
यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः।अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः॥ ५
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः।भवनाग्रेषु लङ्काया विचचार महाकपिः॥ ६
मुमोच हनुमानग्निं कालानलशिखोपमम्॥ ७
श्वसनेन च संयोगादतिवेगो महाबलः।कालाग्निरिव जज्वाल प्रावर्धत हुताशनः॥ ८
प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयत्॥ ९
तानि काञ्चनजालानि मुक्तामणिमयानि च।भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च॥ १०
तानि भग्नविमानानि निपेतुर्वसुधातले।भवनानीव सिद्धानामम्बरात्पुण्यसंक्षये॥ ११
वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान्।विचित्रान्भवनाद्धातून्स्यन्दमानान्ददर्श सः॥ १२
नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा।हनूमान्राक्षसेन्द्राणां वधे किंचिन्न तृप्यति॥ १३
हुताशनज्वालसमावृता साहतप्रवीरा परिवृत्तयोधा।हनूमातः क्रोधबलाभिभूताबभूव शापोपहतेव लङ्का॥ १४
ससंभ्रमं त्रस्तविषण्णराक्षसांसमुज्ज्वलज्ज्वालहुताशनाङ्किताम्।ददर्श लङ्कां हनुमान्महामनाःस्वयम्भुकोपोपहतामिवावनिम्॥ १५
स राक्षसांस्तान्सुबहूंश्च हत्वावनं च भङ्क्त्वा बहुपादपं तत्।विसृज्य रक्षो भवनेषु चाग्निंजगाम रामं मनसा महात्मा॥ १६
लङ्कां समस्तां संदीप्य लाङ्गूलाग्निं महाकपिः।निर्वापयामास तदा समुद्रे हरिसत्तमः॥ १७
इति श्रीरामायणे सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥ ५२