॥ ॐ श्री गणपतये नमः ॥

५१ सर्गः

तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलःदेशकालहितं वाक्यं भ्रातुरुत्तममब्रवीत्

सम्यगुक्तं हि भवता दूतवध्या विगर्हिताअवश्यं तु वधादन्यः क्रियतामस्य निग्रहः

कपीनां किल लाङ्गूलमिष्टं भवति भूषणम्तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु

ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम्समित्रा ज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः

आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम्लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्

तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाःवेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः

संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिःशुष्कमिन्धनमासाद्य वनेष्विव हुताशनः

तैलेन परिषिच्याथ तेऽग्निं तत्रावपातयन्

लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत्रोषामर्षपरीतात्मा बालसूर्यसमाननः

भूयः संगतैः क्रूरै राकसैर्हरिसत्तमःनिबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम्१०

कामं खलु मे शक्ता निबधस्यापि राक्षसाःछित्त्वा पाशान्समुत्पत्य हन्यामहमिमान्पुनः११

सर्वेषामेव पर्याप्तो राक्षसानामहं युधिकिं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम्१२

लङ्का चरयितव्या मे पुनरेव भवेदितिरात्रौ हि सुदृष्टा मे दुर्गकर्मविधानतःअवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये१३

कामं बन्धैश्च मे भूयः पुच्छस्योद्दीपनेन पीडां कुर्वन्तु रक्षांसि मेऽस्ति मनसः श्रमः१४

ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम्परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम्१५

शङ्खभेरीनिनादैस्तैर्घोषयन्तः स्वकर्मभिःराक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम्१६

हनुमांश्चारयामास राक्षसानां महापुरीम्अथापश्यद्विमानानि विचित्राणि महाकपिः१७

संवृतान्भूमिभागांश्च सुविभक्तांश्च चत्वरान्रथ्याश्च गृहसंबाधाः कपिः शृङ्गाटकानि १८

चत्वरेषु चतुष्केषु राजमार्गे तथैव घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः१९

दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतःराक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम्२०

यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिःलाङ्गूलेन प्रदीप्तेन एष परिणीयते२१

श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम्वैदेही शोकसंतप्ता हुताशनमुपागमत्२२

मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेःउपतस्थे विशालाक्षी प्रयता हव्यवाहनम्२३

यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपःयदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः२४

यदि कश्चिदनुक्रोशस्तस्य मय्यस्ति धीमतःयदि वा भाग्यशेषं मे शीतो भव हनूमतः२५

यदि मां वृत्तसंपन्नां तत्समागमलालसाम् विजानाति धर्मात्मा शीतो भव हनूमतः२६

यदि मां तारयत्यार्यः सुग्रीवः सत्यसंगरःअस्माद्दुःखान्महाबाहुः शीतो भव हनूमतः२७

ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलःजज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः२८

दह्यमाने लाङ्गूले चिन्तयामास वानरःप्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः२९

दृश्यते महाज्वालः करोति मे रुजम्शिशिरस्येव संपातो लाङ्गूलाग्रे प्रतिष्ठितः३०

अथ वा तदिदं व्यक्तं यद्दृष्टं प्लवता मयारामप्रभावादाश्चर्यं पर्वतः सरितां पतौ३१

यदि तावत्समुद्रस्य मैनाकस्य धीमथरामार्थं संभ्रमस्तादृक्किमग्निर्न करिष्यति३२

सीतायाश्चानृशंस्येन तेजसा राघवस्य पितुश्च मम सख्येन मां दहति पावकः३३

भूयः चिन्तयामास मुहूर्तं कपिकुञ्जरःउत्पपाताथ वेगेन ननाद महाकपिः३४

पुरद्वारं ततः श्रीमाञ्शैलशृङ्गमिवोन्नतम्विभक्तरक्षःसंबाधमाससादानिलात्मजः३५

भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान्ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत्३६

विमुक्तश्चाभवच्छ्रीमान्पुनः पर्वतसंनिभःवीक्षमाणश्च ददृशे परिघं तोरणाश्रितम्३७

तं गृह्य महाबाहुः कालायसपरिष्कृतम्रक्षिणस्तान्पुनः सर्वान्सूदयामास मारुतिः३८

तान्निहत्वा रणचण्डविक्रमःसमीक्षमाणः पुनरेव लङ्काम्प्रदीप्तलाङ्गूलकृतार्चिमालीप्रकाशतादित्य इवांशुमाली३९

इति श्रीरामायणे सुन्दरकाण्डे एकपञ्चाशः सर्गः५१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved