॥ ॐ श्री गणपतये नमः ॥

४८ सर्गः

तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम्रोषेण महताविष्टो रावणो लोकरावणः

राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्कालयुक्तमुवाचेदं वचो विपुलमर्थवत्

दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम्वनभङ्गे कोऽस्यार्थो राक्षसीनां तर्जने

रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत्समाश्वसिहि भद्रं ते भीः कार्या त्वया कपे

यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम्तत्त्वमाख्याहि मा ते भूद्भयं वानर मोक्ष्यसे

यदि वैश्रवणस्य त्वं यमस्य वरुणस्य चारुरूपमिदं कृत्वा यमस्य वरुणस्य

विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा हि ते वानरं तेजो रूपमात्रं तु वानरम्

तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसेअनृतं वदतश्चापि दुर्लभं तव जीवितम्

अथ वा यन्निमित्तस्ते प्रवेशो रावणालये

एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम्अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा१०

धनदेन मे सख्यं विष्णुना नास्मि चोदितःजातिरेव मम त्वेषा वानरोऽहमिहागतः११

दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मयावनं राक्षसराजस्य दर्शनार्थे विनाशितम्१२

ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणःरक्षणार्थं देहस्य प्रतियुद्धा मया रणे१३

अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपिपितामहादेव वरो ममाप्येषोऽभ्युपागतः१४

राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम्विमुक्तो अहमस्त्रेण राक्षसैस्त्वतिपीडितः१५

दूतोऽहमिति विज्ञेयो राघवस्यामितौजसःश्रूयतां चापि वचनं मम पथ्यमिदं प्रभो१६

इति श्रीरामायणे सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः४८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved