सेनापतीन्पञ्च स तु प्रमापितान्हनूमता सानुचरान्सवाहनान्।समीक्ष्य राजा समरोद्धतोन्मुखंकुमारमक्षं प्रसमैक्षताक्षतम्॥ १
स तस्य दृष्ट्यर्पणसंप्रचोदितःप्रतापवान्काञ्चनचित्रकार्मुकः।समुत्पपाताथ सदस्युदीरितोद्विजातिमुख्यैर्हविषेव पावकः॥ २
ततो महद्बालदिवाकरप्रभंप्रतप्तजाम्बूनदजालसंततम्।रथां समास्थाय ययौ स वीर्यवान्महाहरिं तं प्रति नैरृतर्षभः॥ ३
ततस्तपःसंग्रहसंचयार्जितंप्रतप्तजाम्बूनदजालशोभितम्।पताकिनं रत्नविभूषितध्वजंमनोजवाष्टाश्ववरैः सुयोजितम्॥ ४
सुरासुराधृष्यमसंगचारिणंरविप्रभं व्योमचरं समाहितम्।सतूणमष्टासिनिबद्धबन्धुरंयथाक्रमावेशितशक्तितोमरम्॥ ५
विराजमानं प्रतिपूर्णवस्तुनासहेमदाम्ना शशिसूर्यवर्वसा।दिवाकराभं रथमास्थितस्ततःस निर्जगामामरतुल्यविक्रमः॥ ६
स पूरयन्खं च महीं च साचलांतुरंगमतङ्गमहारथस्वनैः।बलैः समेतैः स हि तोरणस्थितंसमर्थमासीनमुपागमत्कपिम्॥ ७
स तं समासाद्य हरिं हरीक्षणोयुगान्तकालाग्निमिव प्रजाक्षये।अवस्थितं विस्मितजातसंभ्रमःसमैक्षताक्षो बहुमानचक्षुषा॥ ८
स तस्य वेगं च कपेर्महात्मनःपराक्रमं चारिषु पार्थिवात्मजः।विचारयन्खं च बलं महाबलोहिमक्षये सूर्य इवाभिवर्धते॥ ९
स जातमन्युः प्रसमीक्ष्य विक्रमंस्थिरः स्थितः संयति दुर्निवारणम्।समाहितात्मा हनुमन्तमाहवेप्रचोदयामास शरैस्त्रिभिः शितैः॥ १०
ततः कपिं तं प्रसमीक्ष्य गर्वितंजितश्रमं शत्रुपराजयोर्जितम्।अवैक्षताक्षः समुदीर्णमानसःसबाणपाणिः प्रगृहीतकार्मुकः॥ ११
स हेमनिष्काङ्गदचारुकुण्डलःसमाससादाशु पराक्रमः कपिम्।तयोर्बभूवाप्रतिमः समागमःसुरासुराणामपि संभ्रमप्रदः॥ १२
ररास भूमिर्न तताप भानुमान्ववौ न वायुः प्रचचाल चाचलः।कपेः कुमारस्य च वीक्ष्य संयुगंननाद च द्यौरुदधिश्च चुक्षुभे॥ १३
ततः स वीरः सुमुखान्पतत्रिणःसुवर्णपुङ्खान्सविषानिवोरगान्।समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन्कपिमूर्ध्न्यपातयत्॥ १४
स तैः शरैर्मूर्ध्नि समं निपातितैःक्षरन्नसृग्दिग्धविवृत्तलोचनः।नवोदितादित्यनिभः शरांशुमान्व्यराजतादित्य इवांशुमालिकः॥ १५
ततः स पिङ्गाधिपमन्त्रिसत्तमःसमीक्ष्य तं राजवरात्मजं रणे।उदग्रचित्रायुधचित्रकार्मुकंजहर्ष चापूर्यत चाहवोन्मुखः॥ १६
स मन्दराग्रस्थ इवांशुमालीविवृद्धकोपो बलवीर्यसंयुतः।कुमारमक्षं सबलं सवाहनंददाह नेत्राग्निमरीचिभिस्तदा॥ १७
ततः स बाणासनशक्रकार्मुकःशरप्रवर्षो युधि राक्षसाम्बुदः।शरान्मुमोचाशु हरीश्वराचलेबलाहको वृष्टिमिवाचलोत्तमे॥ १८
ततः कपिस्तं रणचण्डविक्रमंविवृद्धतेजोबलवीर्यसायकम्।कुमारमक्षं प्रसमीक्ष्य संयुगेननाद हर्षाद्घनतुल्यविक्रमः॥ १९
स बालभावाद्युधि वीर्यदर्पितःप्रवृद्धमन्युः क्षतजोपमेक्षणः।समाससादाप्रतिमं रणे कपिंगजो महाकूपमिवावृतं तृणैः॥ २०
स तेन बाणैः प्रसभं निपातितैश्चकार नादं घननादनिःस्वनः।समुत्पपाताशु नभः स मारुतिर्भुजोरुविक्षेपण घोरदर्शनः॥ २१
समुत्पतन्तं समभिद्रवद्बलीस राक्षसानां प्रवरः प्रतापवान्।रथी रथश्रेष्ठतमः किरञ्शरैःपयोधरः शैलमिवाश्मवृष्टिभिः॥ २२
स ताञ्शरांस्तस्य विमोक्षयन्कपिश्चचार वीरः पथि वायुसेविते।शरान्तरे मारुतवद्विनिष्पतन्मनोजवः संयति चण्डविक्रमः॥ २३
तमात्तबाणासनमाहवोन्मुखंखमास्तृणन्तं विविधैः शरोत्तमैः।अवैक्षताक्षं बहुमानचक्षुषाजगाम चिन्तां च स मारुतात्मजः॥ २४
ततः शरैर्भिन्नभुजान्तरः कपिःकुमारवर्येण महात्मना नदन्।महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम्॥ २५
अबालवद्बालदिवाकरप्रभःकरोत्ययं कर्म महन्महाबलः।न चास्य सर्वाहवकर्मशोभिनःप्रमापणे मे मतिरत्र जायते॥ २६
अयं महात्मा च महांश्च वीर्यतःसमाहितश्चातिसहश्च संयुगे।असंशयं कर्मगुणोदयादयंसनागयक्षैर्मुनिभिश्च पूजितः॥ २७
पराक्रमोत्साहविवृद्धमानसःसमीक्षते मां प्रमुखागतः स्थितः।पराक्रमो ह्यस्य मनांसि कम्पयेत्सुरासुराणामपि शीघ्रकारिणः॥ २८
न खल्वयं नाभिभवेदुपेक्षितःपराक्रमो ह्यस्य रणे विवर्धते।प्रमापणं त्वेव ममास्य रोचतेन वर्धमानोऽग्निरुपेक्षितुं क्षमः॥ २९
इति प्रवेगं तु परस्य तर्कयन्स्वकर्मयोगं च विधाय वीर्यवान्।चकार वेगं तु महाबलस्तदामतिं च चक्रेऽस्य वधे महाकपिः॥ ३०
स तस्य तानष्टहयान्महाजवान्समाहितान्भारसहान्विवर्तने।जघान वीरः पथि वायुसेवितेतलप्रहालैः पवनात्मजः कपिः॥ ३१
ततस्तलेनाभिहतो महारथःस तस्य पिङ्गाधिपमन्त्रिनिर्जितः।स भग्ननीडः परिमुक्तकूबरःपपात भूमौ हतवाजिरम्बरात्॥ ३२
स तं परित्यज्य महारथो रथंसकार्मुकः खड्गधरः खमुत्पतत्।तपोऽभियोगादृषिरुग्रवीर्यवान्विहाय देहं मरुतामिवालयम्॥ ३३
ततः कपिस्तं विचरन्तमम्बरेपतत्रिराजानिलसिद्धसेविते।समेत्य तं मारुतवेगविक्रमःक्रमेण जग्राह च पादयोर्दृढम्॥ ३४
स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः।मुमोच वेगात्पितृतुल्यविक्रमोमहीतले संयति वानरोत्तमः॥ ३५
स भग्नबाहूरुकटीशिरो धरःक्षरन्नसृन्निर्मथितास्थिलोचनः।स भिन्नसंधिः प्रविकीर्णबन्धनोहतः क्षितौ वायुसुतेन राक्षसः॥ ३६
महाकपिर्भूमितले निपीड्य तं।चकार रक्षोऽधिपतेर्महद्भयम्॥ ३७
महर्षिभिश्चक्रचरैर्महाव्रतैःसमेत्य भूतैश्च सयक्षपन्नगैः।सुरैश्च सेन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षितः॥ ३८
निहत्य तं वज्रसुतोपमप्रभंकुमारमक्षं क्षतजोपमेक्षणम्।तदेव वीरोऽभिजगाम तोरणंकृतक्षणः काल इव प्रजाक्षये॥ ३९
इति श्रीरामायणे सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५