॥ ॐ श्री गणपतये नमः ॥

३४ सर्गः

भूय एव महातेजा हनूमान्मारुतात्मजःअब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात्

वानरोऽहं महाभागे दूतो रामस्य धीमतःरामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम्समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि

गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम्भर्तारमिव संप्राप्ता जानकी मुदिताभवत्

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम्बभूव प्रहर्षोदग्रं राहुमुक्त इवोडुराट्

ततः सा ह्रीमती बाला भर्तुः संदेशहर्षितापरितुट्षा प्रियं श्रुत्वा प्राशंसत महाकपिम्

विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तमयेनेदं राक्षसपदं त्वयैकेन प्रधर्षितम्

शतयोजनविस्तीर्णः सागरो मकरालयःविक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः

हि त्वां प्राकृतं मन्ये वनरं वनरर्षभयस्य ते नास्ति संत्रासो रावणान्नापि संभ्रमः

अर्हसे कपिश्रेष्ठ मया समभिभाषितुम्यद्यसि प्रेषितस्तेन रामेण विदितात्मना

प्रेषयिष्यति दुर्धर्षो रामो ह्यपरीक्षितम्पराक्रममविज्ञाय मत्सकाशं विशेषतः१०

दिष्ट्या कुशली रामो धर्मात्मा धर्मवत्सलःलक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः११

कुशली यदि काकुत्स्थः किं नु सागरमेखलाम्महीं दहति कोपेन युगान्ताग्निरिवोत्थितः१२

अथ वा शक्तिमन्तौ तौ सुराणामपि निग्रहेममैव तु दुःखानामस्ति मन्ये विपर्ययः१३

कच्चिच्च व्यथते रामः कच्चिन्न परिपत्यतेउत्तराणि कार्याणि कुरुते पुरुषोत्तमः१४

कच्चिन्न दीनः संभ्रान्तः कार्येषु मुह्यतिकच्चिन्पुरुषकार्याणि कुरुते नृपतेः सुतः१५

द्विविधं त्रिविधोपायमुपायमपि सेवतेविजिगीषुः सुहृत्कच्चिन्मित्रेषु परंतपः१६

कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यतेकच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः१७

कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजःकच्चित्पुरुषकारं दैवं प्रतिपद्यते१८

कच्चिन्न विगतस्नेहो विवासान्मयि राघवःकच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानरः१९

सुखानामुचितो नित्यमसुखानामनूचितःदुःखमुत्तरमासाद्य कच्चिद्रामो सीदति२०

कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य २१

मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवःकच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति२२

कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलःध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते२३

वानराधिपतिः श्रीमान्सुग्रीवः कच्चिदेष्यतिमत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः२४

कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनःअस्त्रविच्छरजालेन राक्षसान्विधमिष्यति२५

रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणेद्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम्२६

कच्चिन्न तद्धेमसमानवर्णंतस्याननं पद्मसमानगन्धिमया विना शुष्यति शोकदीनंजलक्षये पद्ममिवातपेन२७

धर्मापदेशात्त्यजतश्च राज्यांमां चाप्यरण्यं नयतः पदातिम्नासीद्व्यथा यस्य भीर्न शोकःकच्चित्स धैर्यं हृदये करोति२८

चास्य माता पिता चान्यःस्नेहाद्विशिष्टोऽस्ति मया समो वातावद्ध्यहं दूतजिजीविषेयंयावत्प्रवृत्तिं शृणुयां प्रियस्य२९

इतीव देवी वचनं महार्थंतं वानरेन्द्रं मधुरार्थमुक्त्वाश्रोतुं पुनस्तस्य वचोऽभिरामंरामार्थयुक्तं विरराम रामा३०

सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमःशिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्३१

त्वामिहस्थां जानीते रामः कमललोचनःश्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः३२

चमूं प्रकर्षन्महतीं हर्यृष्कगणसंकुलाम्विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम्करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम्३३

तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराःस्थास्यन्ति पथि रामस्य तानपि वधिष्यति३४

तवादर्शनजेनार्ये शोकेन परिप्लुतः शर्म लभते रामः सिंहार्दित इव द्विपः३५

दर्दरेण ते देवि शपे मूलफलेन मलयेन विन्ध्येन मेरुणा मन्दरेण ३६

यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम्मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम्३७

क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौशतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि३८

मांसं राघवो भुङ्क्ते चापि मधुसेवतेवन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम्३९

नैव दंशान्न मशकान्न कीटान्न सरीसृपान्राघवोऽपनयेद्गत्रात्त्वद्गतेनान्तरात्मना४०

नित्यं ध्यानपरो रामो नित्यं शोकपरायणःनान्यच्चिन्तयते किंचित्स तु कामवशं गतः४१

अनिद्रः सततं रामः सुप्तोऽपि नरोत्तमःसीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते४२

दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत्स्त्रीमनोहरम्बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते४३

देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणःधृतव्रतो राजसुतो महात्मातवैव लाभाय कृतप्रयत्नः४४

सा रामसंकीर्तनवीतशोकारामस्य शोकेन समानशोकाशरन्मुखेनाम्बुदशेषचन्द्रानिशेव वैदेहसुता बभूव४५

इति श्रीरामायणे सुन्दरकाण्डे चतुस्त्रिंशः सर्गः३४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved