तां तु राम कथां श्रुत्वा वैदेही वानरर्षभात्।उवाच वचनं सान्त्वमिदं मधुरया गिरा॥ १
क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्।वानराणां नराणां च कथमासीत्समागमः॥ २
यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर।तानि भूयः समाचक्ष्व न मां शोकः समाविशेत्॥ ३
कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम्।कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे॥ ४
एवमुक्तस्तु वैदेह्या हनूमान्मारुतात्मजः।ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे॥ ५
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि।भर्तुः कमलपत्राक्षि संख्यानं लक्ष्मणस्य च॥ ६
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै।लक्षितानि विशालाक्षि वदतः शृणु तानि मे॥ ७
रामः कमलपत्राक्षः सर्वभूतमनोहरः।रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे॥ ८
तेजसादित्यसंकाशः क्षमया पृथिवीसमः।बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः॥ ९
रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता।रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः॥ १०
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता।मर्यादानां च लोकस्य कर्ता कारयिता च सः॥ ११
अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः।साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्॥ १२
राजविद्याविनीतश्च ब्राह्मणानामुपासिता।श्रुतवाञ्शीलसंपन्नो विनीतश्च परंतपः॥ १३
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः।धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः॥ १४
विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः।गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः॥ १५
दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान्।समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः॥ १६
त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः।त्रिवलीवांस्त्र्यवणतश्चतुर्व्यङ्गस्त्रिशीर्षवान्॥ १७
चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः।चतुर्दशसमद्वन्द्वश्चतुर्दष्टश्चतुर्गतिः॥ १८
महौष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान्।दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान्।षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः॥ १९
सत्यधर्मपरः श्रीमान्संग्रहानुग्रहे रतः।देशकालविभागज्ञः सर्वलोकप्रियंवदः॥ २०
भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः।अनुरागेण रूपेण गुणैश्चैव तथाविधः॥ २१
त्वामेव मार्गमाणो तौ विचरन्तौ वसुंधराम्।ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम्॥ २२
ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले।भ्रातुर्भार्यार्तमासीनं सुग्रीवं प्रियदर्शनम्॥ २३
वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम्।परिचर्यामहे राज्यात्पूर्वजेनावरोपितम्॥ २४
ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ।ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ॥ २५
स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः।अभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः॥ २६
ततः स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः।तयोः समीपं मामेव प्रेषयामास सत्वरः॥ २७
तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू।रूपलक्षणसंपन्नौ कृताञ्जलिरुपस्थितः॥ २८
तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ।पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ॥ २९
निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने।तयोरन्योन्यसंभाषाद्भृशं प्रीतिरजायत॥ ३०
तत्र तौ कीर्तिसंपन्नौ हरीश्वरनरेश्वरौ।परस्परकृताश्वासौ कथया पूर्ववृत्तया॥ ३१
तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः।स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरु तेजसा॥ ३२
ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः।लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्॥ ३३
स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः।तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्॥ ३४
ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया।यान्याभरणजालानि पातितानि महीतले॥ ३५
तानि सर्वाणि रामाय आनीय हरियूथपाः।संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव॥ ३६
तानि रामाय दत्तानि मयैवोपहृतानि च।स्वनवन्त्यवकीर्णन्ति तस्मिन्विहतचेतसि॥ ३७
तान्यङ्के दर्शनीयानि कृत्वा बहुविधं ततः।तेन देवप्रकाशेन देवेन परिदेवितम्॥ ३८
पश्यतस्तस्या रुदतस्ताम्यतश्च पुनः पुनः।प्रादीपयन्दाशरथेस्तानि शोकहुताशनम्॥ ३९
शयितं च चिरं तेन दुःखार्तेन महात्मना।मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः॥ ४०
तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः।राघवः सहसौमित्रिः सुग्रीवे स न्यवेदयत्॥ ४१
स तवादर्शनादार्ये राघवः परितप्यते।महता ज्वलता नित्यमग्निनेवाग्निपर्वतः॥ ४२
त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम्।तापयन्ति महात्मानमग्न्यगारमिवाग्नयः॥ ४३
तवादर्शनशोकेन राघवः प्रविचाल्यते।महता भूमिकम्पेन महानिव शिलोच्चयः॥ ४४
कानानानि सुरम्याणि नदीप्रस्रवणानि च।चरन्न रतिमाप्नोति त्वमपश्यन्नृपात्मजे॥ ४५
स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः।समित्रबान्धवं हत्वा रावणं जनकात्मजे॥ ४६
सहितौ रामसुग्रीवावुभावकुरुतां तदा।समयं वालिनं हन्तुं तव चान्वेषणं तथा॥ ४७
ततो निहत्य तरसा रामो वालिनमाहवे।सर्वर्क्षहरिसंघानां सुग्रीवमकरोत्पतिम्॥ ४८
रामसुग्रीवयोरैक्यं देव्येवं समजायत।हनूमन्तं च मां विद्धि तयोर्दूतमिहागतम्॥ ४९
स्वराज्यं प्राप्य सुग्रीवः समनीय महाहरीन्।त्वदर्थं प्रेषयामास दिशो दश महाबलान्॥ ५०
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः।अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम्॥ ५१
अङ्गदो नाम लक्ष्मीवान्वालिसूनुर्महाबलः।प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः॥ ५२
तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे।भृशं शोकपरीतनामहोरात्रगणा गताः॥ ५३
ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च।भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः॥ ५४
विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च।अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः॥ ५५
भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः।तव नाशं च वैदेहि वालिनश्च तथा वधम्।प्रायोपवेशमस्माकं मरणं च जटायुषः॥ ५६
तेषां नः स्वामिसंदेशान्निराशानां मुमूर्षताम्।कार्यहेतोरिवायातः शकुनिर्वीर्यवान्महान्॥ ५७
गृध्रराजस्य सोदर्यः संपातिर्नाम गृध्रराट्।श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत्॥ ५८
यवीयान्केन मे भ्राता हतः क्व च विनाशितः।एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः॥ ५९
अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम्।रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम्॥ ६०
जटायोस्तु वधं श्रुत्वा दुःखितः सोऽरुणात्मजः।त्वामाह स वरारोहे वसन्तीं रावणालये॥ ६१
तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम्।अङ्गदप्रमुखाः सर्वे ततः संप्रस्थिता वयम्।त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवंगमाः॥ ६२
अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः।व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः॥ ६३
लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला।रावणश्च मया दृष्टस्त्वं च शोकनिपीडिता॥ ६४
एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते।अभिभाषस्व मां देवि दूतो दाशरथेरहम्॥ ६५
त्वं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम्।सुग्रीव सचिवं देवि बुध्यस्व पवनात्मजम्॥ ६६
कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः।गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः॥ ६७
तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः।अहमेकस्तु संप्राप्तः सुग्रीववचनादिह॥ ६८
मयेयमसहायेन चरता कामरूपिणा।दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा॥ ६९
दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम्।अपनेष्यामि संतापं तवाभिगमशंसनात्॥ ७०
दिष्ट्या हि न मम व्यर्थं देवि सागरलङ्घनम्।प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः॥ ७१
राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते।समित्रबान्धवं हत्वा रावणं राक्षसाधिपम्॥ ७२
कौरजो नाम वैदेहि गिरीणामुत्तमो गिरिः।ततो गच्छति गोकर्णं पर्वतं केसरी हरिः॥ ७३
स च देवर्षिभिर्दृष्टः पिता मम महाकपिः।तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत्॥ ७४
तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि।हनूमानिति विख्यातो लोके स्वेनैव कर्मणा।विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः॥ ७५
एवं विश्वासिता सीता हेतुभिः शोककर्शिता।उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति॥ ७६
अतुलं च गता हर्षं प्रहर्षेण तु जानकी।नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम्॥ ७७
चारु तच्चाननं तस्यास्ताम्रशुक्लायतेक्षणम्।अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्।हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा॥ ७८
अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम्॥ ७९
हतेऽसुरे संयति शम्बसादनेकपिप्रवीरेण महर्षिचोदनात्।ततोऽस्मि वायुप्रभवो हि मैथिलिप्रभावतस्तत्प्रतिमश्च वानरः॥ ८०
इति श्रीरामायणे सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३