ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा।सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्॥ १
सा तु दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम्।मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी॥ २
सा तं समीक्ष्यैव भृशं विसंज्ञागतासुकल्पेव बभूव सीता।चिरेण संज्ञां प्रतिलभ्य चैवविचिन्तयामास विशालनेत्रा॥ ३
स्वप्नो मयायं विकृतोऽद्य दृष्टःशाखामृगः शास्त्रगणैर्निषिद्धः।स्वस्त्यस्तु रामाय सलक्ष्मणायतथा पितुर्मे जनकस्य राज्ञः॥ ४
स्वप्नोऽपि नायं न हि मेऽस्ति निद्राशोकेन दुःखेन च पीडितायाः।सुखं हि मे नास्ति यतोऽस्मि हीनातेनेन्दुपूर्णप्रतिमाननेन॥ ५
अहं हि तस्याद्य मनो भवेनसंपीडिता तद्गतसर्वभावा।विचिन्तयन्ती सततं तमेवतथैव पश्यामि तथा शृणोमि॥ ६
मनोरथः स्यादिति चिन्तयामितथापि बुद्ध्या च वितर्कयामि।किं कारणं तस्य हि नास्ति रूपंसुव्यक्तरूपश्च वदत्ययं माम्॥ ७
नमोऽस्तु वाचस्पतये सवज्रिणेस्वयम्भुवे चैव हुताशनाय।अनेन चोक्तं यदिदं ममाग्रतोवनौकसा तच्च तथास्तु नान्यथा॥ ८
इति श्रीरामायणे सुन्दरकाण्डे त्रिंशत्तमः सर्गः ॥ ३०