एवं बहुविधां चिन्तां चिन्तयित्व महाकपिः।संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह॥ १
राजा दशरथो नाम रथकुञ्जरवाजिनाम्।पुण्यशीलो महाकीर्तिरृजुरासीन्महायशाः।चक्रवर्तिकुले जातः पुरंदरसमो बले॥ २
अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः।मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः॥ ३
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः।पृथिव्यां चतुरन्तयां विश्रुतः सुखदः सुखी॥ ४
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः।रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्॥ ५
रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता।रक्षिता जीवलोकस्य धर्मस्य च परंतपः॥ ६
तस्य सत्याभिसंधस्य वृद्धस्य वचनात्पितुः।सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम्॥ ७
तेन तत्र महारण्ये मृगयां परिधावता।जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ।ततस्त्वमर्षापहृता जानकी रावणेन तु॥ ८
यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम्।अश्रौषं राघवस्याहं सेयमासादिता मया॥ ९
विररामैवमुक्त्वासौ वाचं वानरपुंगवः।जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता॥ १०
ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्।उन्नम्य वदनं भीरुः शिंशपावृक्षमैक्षत॥ ११
सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्य बुद्धिम्।ददर्श पिङ्गाधिपतेरमात्यंवातात्मजं सूर्यमिवोदयस्थम्॥ १२
इति श्रीरामायणे सुन्दरकाण्डे एकोनत्रिंशत्तमः सर्गः ॥ २९