॥ ॐ श्री गणपतये नमः ॥

२५ सर्गः

इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्छिताःकाश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः

ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाःपुनः परुषमेकार्थमनर्थार्थमथाब्रुवन्

हन्तेदानीं तवानार्ये सीते पापविनिश्चयेराक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम्

सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदाराक्षसी त्रिजटावृद्धा शयाना वाक्यमब्रवीत्

आत्मानं खादतानार्या सीतां भक्षयिष्यथजनकस्य सुतामिष्टां स्नुषां दशरथस्य

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणःराक्षसानामभावाय भर्तुरस्या भवाय

एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताःसर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः

कथयस्व त्वया दृष्टः स्वप्नेऽयं कीदृशो निशि

तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम्उवाच वचनं काले त्रिजटास्वप्नसंश्रितम्

गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम्युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः१०

स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृतासागरेण परिक्षिप्तं श्वेतपर्वतमास्थितारामेण संगता सीता भास्करेण प्रभा यथा११

राघवश्च मया दृष्टश्चतुर्दन्तं महागजम्आरूढः शैलसंकाशं चचार सहलक्ष्मणः१२

ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसाशुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ१३

ततस्तस्य नगस्याग्रे आकाशस्थस्य दन्तिनःभर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता१४

भर्तुरङ्कात्समुत्पत्य ततः कमललोचनाचन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती१५

ततस्ताभ्यां कुमाराभ्यामास्थितः गजोत्तमःसीतया विशालाक्ष्या लङ्काया उपरि स्थितः१६

पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम्शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतःलक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया१७

विमानात्पुष्पकादद्य रावणः पतितो भुविकृष्यपाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः१८

रथेन खरयुक्तेन रक्तमाल्यानुलेपनःप्रयातो दक्षिणामाशां प्रविष्टः कर्दमं ह्रदम्१९

कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनीकाली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति२०

वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित्उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम्२१

समाजश्च महान्वृत्तो गीतवादित्रनिःस्वनःपिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्२२

लङ्का चेयं पुरी रम्या सवाजिरथसंकुलासागरे पतिता दृष्टा भग्नगोपुरतोरणा२३

पीत्व तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाःलङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः२४

कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाःरक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे२५

अपगच्छत नश्यध्वं सीतामाप्नोति राघवःघातयेत्परमामर्षी सर्वैः सार्धं हि राक्षसैः२६

प्रियां बहुमतां भार्यां वनवासमनुव्रताम्भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः२७

तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम्अभियाचाम वैदेहीमेतद्धि मम रोचते२८

यस्या ह्येवं विधः स्वप्नो दुःखितायाः प्रदृश्यतेसा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्२९

भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षयाराघवाद्धि भयं घोरं राक्षसानामुपस्थितम्३०

प्रणिपात प्रसन्ना हि मैथिली जनकात्मजाअलमेषा परित्रातुं राक्षस्यो महतो भयात्३१

अपि चास्या विशालाक्ष्या किंचिदुपलक्षयेविरुद्धमपि चाङ्गेषु सुसूक्ष्ममपि लक्ष्मणम्३२

छाया वैगुण्य मात्रं तु शङ्के दुःखमुपस्थितम्अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम्३३

अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम्राक्षसेन्द्रविनाशं विजयं राघवस्य ३४

निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम्दृश्यते स्फुरच्चक्षुः पद्मपत्रमिवायतम्३५

ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणःअकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते३६

करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमःवेपन्सूचयतीवास्या राघवं पुरतः स्थितम्३७

पक्षी शाखा निलयं प्रविष्टःपुनः पुनश्चोत्तमसान्त्ववादीसुखागतां वाचमुदीरयाणःपुनः पुनश्चोदयतीव हृष्टः३८

इति श्रीरामायणे सुन्दरकाण्डे पञ्चविंशतितमः सर्गः२५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved