॥ ॐ श्री गणपतये नमः ॥

२३ सर्गः

तथा तासां वदन्तीनां परुषं दारुणं बहुराक्षसीनामसौम्यानां रुरोद जनकात्मजा

एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनीउवाच परमत्रस्ता बाष्पगद्गदया गिरा

मानुषी राक्षसस्य भार्या भवितुमर्हतिकामं खादत मां सर्वा करिष्यामि वो वचः

सा राक्षसी मध्यगता सीता सुरसुतोपमा शर्म लेभे दुःखार्ता रावणेन तर्जिता

वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनःवने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता

सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम्चिन्तयामास शोकेन भर्तारं भग्नमानसा

सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैःचिन्तयन्ती शोकस्य तदान्तमधिगच्छति

सा वेपमाना पतिता प्रवाते कदली यथाराक्षसीनां भयत्रस्ता विवर्णवदनाभवत्

तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदाददृशे कम्पिनी वेणी व्यालीव परिसर्पती

सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतनाआर्ता व्यसृजदश्रूणि मैथिली विललाप १०

हा रामेति दुःखार्ता पुनर्हा लक्ष्मणेति हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि११

लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतःअकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा१२

यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिताजीवामि हीना रामेण मुहूर्तमपि दुःखिता१३

एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत्समुद्रमध्ये नौ पूर्णा वायुवेगैरिवाहता१४

भर्तारं तमपश्यन्ती राक्षसीवशमागतासीदामि खलु शोकेन कूलं तोयहतं यथा१५

तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम्धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम्१६

सर्वथा तेन हीनाया रामेण विदितात्मनातीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम्१७

कीदृशं तु मया पापं पुरा देहान्तरे कृतम्येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम्१८

जीवितं त्यक्तुमिच्छामि शोकेन महता वृताराक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया१९

धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम्२०

इति श्रीरामायणे सुन्दरकाण्डे त्रयोविंशतितमः सर्गः२३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved