॥ ॐ श्री गणपतये नमः ॥

सर्गः

निकामं विनामेषु विचरन्कामरूपधृक्विचचार कपिर्लङ्कां लाघवेन समन्वितः

आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम्प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम्

रक्षितं राक्षसैर्भीमैः सिंहैरिव महद्वनम्समीक्षमाणो भवनं चकाशे कपिकुञ्जरः

रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैःविचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम्

गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैःउपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः

सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैःघोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः

बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम्महारथसमावासं महारथमहासनम्

दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिःविविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः

विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम्मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः

मुदितप्रमदा रत्नं राक्षसेन्द्रनिवेशनम्वराभरणनिर्ह्रादैः समुद्रस्वननिःस्वनम्१०

तद्राजगुणसंपन्नं मुख्यैश्च वरचन्दनैःभेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम्११

नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदासमुद्रमिव गम्भीरं समुद्रमिव निःस्वनम्१२

महात्मानो महद्वेश्म महारत्नपरिच्छदम्महाजनसमाकीर्णं ददर्श महाकपिः१३

विराजमानं वपुषा गजाश्वरथसंकुलम्लङ्काभरणमित्येव सोऽमन्यत महाकपिः१४

गृहाद्गृहं राक्षसानामुद्यानानि वानरःवीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः१५

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्१६

अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम्विभीषणस्य तथा पुप्लुवे महाकपिः१७

महोदरस्य तथा विरूपाक्षस्य चैव हिविद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव वज्रदंष्ट्रस्य तथा पुप्लुवे महाकपिः१८

शुकस्य महावेगः सारणस्य धीमतःतथा चेन्द्रजितो वेश्म जगाम हरियूथपः१९

जम्बुमालेः सुमालेश्च जगाम हरियूथपःरश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव २०

धूम्राक्षस्य संपातेर्भवनं मारुतात्मजःविद्युद्रूपस्य भीमस्य घनस्य विघनस्य २१

शुकनाभस्य वक्रस्य शठस्य विकटस्य ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य रक्षसः२२

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनःविद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य २३

करालस्य पिशाचस्य शोणिताक्षस्य चैव हिक्रममाणः क्रमेणैव हनूमान्मारुतात्मजः२४

तेषु तेषु महार्हेषु भवनेषु महायशाःतेषामृद्धिमतामृद्धिं ददर्श महाकपिः२५

सर्वेषां समतिक्रम्य भवनानि समन्ततःआससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम्२६

रावणस्योपशायिन्यो ददर्श हरिसत्तमःविचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाःशूलमुद्गरहस्ताश्च शक्तो तोमरधारिणीः२७

ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे२८

रक्ताञ्श्वेतान्सितांश्चैव हरींश्चैव महाजवान्कुलीनान्रूपसंपन्नान्गजान्परगजारुजान्२९

निष्ठितान्गजशिखायामैरावतसमान्युधिनिहन्तॄन्परसैन्यानां गृहे तस्मिन्ददर्श सः३०

क्षरतश्च यथा मेघान्स्रवतश्च यथा गिरीन्मेघस्तनितनिर्घोषान्दुर्धर्षान्समरे परैः३१

सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताःहेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः३२

ददर्श राक्षसेन्द्रस्य रावणस्य निवेशनेशिबिका विविधाकाराः कपिर्मारुतात्मजः३३

लतागृहाणि चित्राणि चित्रशालागृहाणि क्रीडागृहाणि चान्यानि दारुपर्वतकानपि३४

कामस्य गृहकं रम्यं दिवागृहकमेव ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने३५

मन्दरतलप्रख्यं मयूरस्थानसंकुलम्ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम्३६

अनन्तरत्ननिचयं निधिजालं समन्ततःधीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव३७

अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः३८

जाम्बूनदमयान्येव शयनान्यासनानि भाजनानि शुभ्राणि ददर्श हरियूथपः३९

मध्वासवकृतक्लेदं मणिभाजनसंकुलम्मनोरममसंबाधं कुबेरभवनं यथा४०

नूपुराणां घोषेण काञ्चीनां निनदेन मृदङ्गतलघोषैश्च घोषवद्भिर्विनादितम्४१

प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम्सुव्यूढकक्ष्यं हनुमान्प्रविवेश महागृहम्४२

इति श्रीरामायणे सुन्दरकाण्डे पञ्चमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved