॥ ॐ श्री गणपतये नमः ॥

७० सर्गः

तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वनेआतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ

तौ शैलेष्वाचितानेकान्क्षौद्रकल्पफलद्रुमान्वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ

कृत्वा शैलपृष्ठे तु तौ वासं रघुनन्दनौपम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः

तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम्अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम्

तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम्सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः

तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिःपादौ जग्राह रामस्य लक्ष्मणस्य धीमतः

तामुवाच ततो रामः श्रमणीं संशितव्रताम्कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः

कच्चित्ते नियतः कोप आहारश्च तपोधनेकच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम्कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि

रामेण तापसी पृष्ठा सा सिद्धा सिद्धसंमताशशंस शबरी वृद्धा रामाय प्रत्युपस्थिता

चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैःइतस्ते दिवमारूढा यानहं पर्यचारिषम्१०

तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिःआगमिष्यति ते रामः सुपुण्यमिममाश्रमम्११

ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिःतं दृष्ट्वा वराँल्लोकानक्षयांस्त्वं गमिष्यसि१२

मया तु विविधं वन्यं संचितं पुरुषर्षभतवार्थे पुरुषव्याघ्र पम्पायास्तीरसंभवम्१३

एवमुक्तः धर्मात्मा शबर्या शबरीमिदम्राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम्१४

दनोः सकाशात्तत्त्वेन प्रभावं ते महात्मनःश्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे१५

एतत्तु वचनं श्रुत्वा रामवक्त्राद्विनिःसृतम्शबरी दर्शयामास तावुभौ तद्वनं महत्१६

पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम्मतङ्गवनमित्येव विश्रुतं रघुनन्दन१७

इह ते भावितात्मानो गुरवो मे महाद्युतेजुहवांश्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम्१८

इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताःपुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः१९

तेषां तपः प्रभावेन पश्याद्यापि रघूत्तमद्योतयन्ति दिशः सर्वाः श्रिया वेद्योऽतुलप्रभाः२०

अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैःचिन्तितेऽभ्यागतान्पश्य समेतान्सप्त सागरान्२१

कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विहअद्यापि विशुष्यन्ति प्रदेशे रघुनन्दन२२

कृत्स्नं वनमिदं दृष्टं श्रोतव्यं श्रुतं त्वयातदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत्कलेवरम्२३

तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम्मुनीनामाश्रंमो येषामहं परिचारिणी२४

धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणःअनुजानामि गच्छेति प्रहृष्टवदनोऽब्रवीत्२५

अनुज्ञाता तु रामेण हुत्वात्मानं हुताशनेज्वलत्पावकसंकाशा स्वर्गमेव जगाम सा२६

यत्र ते सुकृतात्मानो विहरन्ति महर्षयःतत्पुण्यं शबरीस्थानं जगामात्मसमाधिना२७

इति श्रीरामायणे अरण्यकाण्डे सप्ततितमः सर्गः७०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved