॥ ॐ श्री गणपतये नमः ॥

६७ सर्गः

पुरा राम महाबाहो महाबलपराक्रमरूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम्यथा सोमस्य शक्रस्य सूर्यस्य यथा वपुः

सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत्ऋषीन्वनगतान्राम त्रासयामि ततस्ततः

ततः स्थूलशिरा नाम महर्षिः कोपितो मयासंचिन्वन्विविधं वन्यं रूपेणानेन धर्षितः

तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिनाएतदेव नृशंसं ते रूपमस्तु विगर्हितम्

मया याचितः क्रुद्धः शापस्यान्तो भवेदितिअभिशापकृतस्येति तेनेदं भाषितं वचः

यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वनेतदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम्

श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मणइन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे

अहं हि तपसोग्रेण पितामहमतोषयम्दीर्घमायुः मे प्रादात्ततो मां विभ्रमोऽस्पृशत्

दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यतिइत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम्

तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणासक्थिनी शिरश्चैव शरीरे संप्रवेशितम्१०

मया याच्यमानः सन्नानयद्यमसादनम्पितामहवचः सत्यं तदस्त्विति ममाब्रवीत्११

अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखःवज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम्१२

एवमुक्तस्तु मे शक्रो बाहू योजनमायतौप्रादादास्यं मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत्१३

सोऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान्सिंहद्विपमृगव्याघ्रान्भक्षयामि समन्ततः१४

तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणःछेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि१५

त्वं रामोऽसि भद्रं ते नाहमन्येन राघवशक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा१६

अहं हि मतिसाचिव्यं करिष्यामि नरर्षभमित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना१७

एवमुक्तस्तु धर्मात्मा दनुना तेन राघवःइदं जगाद वचनं लक्ष्मणस्योपशृण्वतः१८

रावणेन हृता सीता मम भार्या यशस्विनीनिष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम्१९

नाममात्रं तु जानामि रूपं तस्य रक्षसःनिवासं वा प्रभावं वा वयं तस्य विद्महे२०

शोकार्तानामनाथानामेवं विपरिधावताम्कारुण्यं सदृशं कर्तुमुपकारे वर्तताम्२१

काष्ठान्यानीय शुष्काणि काले भग्नानि कुञ्जरैःभक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते२२

त्वं सीतां समाचक्ष्व येन वा यत्र वा हृताकुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः२३

एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम्प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम्२४

दिव्यमस्ति मे ज्ञानं नाभिजानामि मैथिलीम्यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः२५

अदग्धस्य हि विज्ञातुं शक्तिरस्ति मे प्रभोराक्षसं तं महावीर्यं सीता येन हृता तव२६

विज्ञानं हि महद्भ्रष्टं शापदोषेण राघवस्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम्२७

किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनःतावन्मामवटे क्षिप्त्वा दह राम यथाविधि२८

दग्धस्त्वयाहमवटे न्यायेन रघुनन्दनवक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसं२९

तेन सख्यं कर्तव्यं न्याय्यवृत्तेन राघवकल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः३०

हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघवसर्वान्परिसृतो लोकान्पुरा वै कारणान्तरे३१

इति श्रीरामायणे अरण्यकाण्डे सप्तषष्टितमः सर्गः६७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved