॥ ॐ श्री गणपतये नमः ॥

६५ सर्गः

कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदाअवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम्

तां दिशं दक्षिणां गत्वा शरचापासिधारिणौअविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः

गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम्आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम्

व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम्सुभीमं तन्महारण्यं व्यतियातौ महाबलौ

ततः परं जनस्थानात्त्रिक्रोशं गम्य राघवौक्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ

नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतःनानावर्णैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम्

दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुःतत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ

लक्ष्मणस्तु महातेजाः सत्त्ववाञ्शीलवाञ्शुचिःअब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसं

स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनःप्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये

तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम्ममैव हि निमित्तानि सद्यः शंसन्ति संभ्रमम्१०

एष वञ्चुलको नाम पक्षी परमदारुणःआवयोर्विजयं युद्धे शंसन्निव विनर्दति११

तयोरन्वेषतोरेवं सर्वं तद्वनमोजसासंजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद्वनम्१२

संवेष्टितमिवात्यर्थं गहनं मातरिश्वनावनस्य तस्य शब्दोऽभूद्दिवमापूरयन्निव१३

तं शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजःददर्श सुमहाकायं राक्षसं विपुलोरसं१४

आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम्विवृद्धमशिरोग्रीवं कबन्धमुदरे मुखम्१५

रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम्नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम्१६

महापक्ष्मेण पिङ्गेन विपुलेनायतेन एकेनोरसि घोरेण नयनेनाशुदर्शिना१७

महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम्भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान्१८

घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौकराभ्यां विविधान्गृह्य ऋष्कान्पक्षिगणान्मृगान्१९

आकर्षन्तं विकर्षन्तमनेकान्मृगयूथपान्स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः२०

अथ तौ समतिक्रम्य क्रोशमात्रे ददर्शतुःमहान्तं दारुणं भीमं कबन्धं भुजसंवृतम्२१

महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौजग्राह सहितावेव राघवौ पीडयन्बलात्२२

खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौभ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ२३

तावुवाच महाबाहुः कबन्धो दानवोत्तमःकौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ२४

घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौवदतं कार्यमिह वां किमर्थं चागतौ युवाम्२५

इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतःसबाणचापखड्गौ तीक्ष्णशृङ्गाविवर्षभौममास्यमनुसंप्राप्तौ दुर्लभं जीवितं पुनः२६

तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनःउवाच लक्ष्मणं रामो मुखेन परिशुष्यता२७

कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रमव्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम्२८

कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मणत्वां मां नरव्याघ्र व्यसनैः पश्य मोहितौनातिभारोऽस्ति दैवस्य सर्वभुतेषु लक्ष्मण२९

शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरेकालाभिपन्नाः सीदन्ति यथा वालुकसेतवः३०

इति ब्रुवाणो दृढसत्यविक्रमोमहायशा दाशरथिः प्रतापवान्अवेक्ष्य सौमित्रिमुदग्रविक्रमंस्थिरां तदा स्वां मतिमात्मनाकरोत्३१

इति श्रीरामायणे अरण्यकाण्डे पञ्चषष्टितमः सर्गः६५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved