॥ ॐ श्री गणपतये नमः ॥

६४ सर्गः

रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम्सौमित्रिं मित्रसंपन्नमिदं वचनमब्रवीत्

ममायं नूनमर्थेषु यतमानो विहंगमःराक्षसेन हतः संख्ये प्राणांस्त्यजति दुस्त्यजान्

अयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण विद्यतेतथा स्वरविहीनोऽयं विक्लवं समुदीक्षते

जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनःसीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः

किंनिमित्तोऽहरत्सीतां रावणस्तस्य किं मयाअपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया

कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम्सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम

कथंवीर्यः कथंरूपः किंकर्मा राक्षसःक्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः

तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम्वाचातिसन्नया रामं जटायुरिदमब्रवीत्

सा हृता राक्षसेन्द्रेण रावणेन विहायसामायामास्थाय विपुलां वातदुर्दिनसंकुलाम्

परिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरःसीतामादाय वैदेहीं प्रयातो दक्षिणा मुखः१०

उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघवपश्यामि वृक्षान्सौवर्णानुशीरकृतमूर्धजान्११

येन याति मुहूर्तेन सीतामादाय रावणःविप्रनष्टं धनं क्षिप्रं तत्स्वामिप्रतिपद्यते१२

विन्दो नाम मुहूर्तोऽसौ काकुत्स्थ नाबुधत्झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति१३

त्वया व्यथा कार्या जनकस्य सुतां प्रतिवैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे१४

असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतःआस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम्१५

पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य इत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः१६

ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेःत्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसं१७

निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदाविक्षिप्य शरीरं स्वं पपात धरणीतले१८

तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम्रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत्१९

बहूनि रक्षसां वासे वर्षाणि वसता सुखम्अनेन दण्डकारण्ये विचीर्णमिह पक्षिणा२०

अनेकवार्षिको यस्तु चिरकालं समुत्थितःसोऽयमद्य हतः शेते कालो हि दुरतिक्रमः२१

पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मेसीतामभ्यवपन्नो वै रावणेन बलीयसा२२

गृध्रराज्यं परित्यज्य पितृपैतामहं महत्मम हेतोरयं प्राणान्मुमोच पतगेश्वरः२३

सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणःशूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि२४

सीताहरणजं दुःखं मे सौम्य तथागतम्यथा विनाशो गृध्रस्य मत्कृते परंतप२५

राजा दशरथः श्रीमान्यथा मम मया यशाःपूजनीयश्च मान्यश्च तथायं पतगेश्वरः२६

सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्गृध्रराजं दिधक्षामि मत्कृते निधनं गतम्२७

नाथं पतगलोकस्य चितामारोपयाम्यहम्इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा२८

या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिःअपरावर्तिनां या या भूमिप्रदायिनाम्२९

मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्गृध्रराज महासत्त्व संस्कृतश्च मया व्रज३०

एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम्ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः३१

रामोऽथ सहसौमित्रिर्वनं यात्वा वीर्यवान्स्थूलान्हत्वा महारोहीननु तस्तार तं द्विजम्३२

रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाःशकुनाय ददौ रामो रम्ये हरितशाद्वले३३

यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयःतत्स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ३४

ततो गोदावरीं गत्वा नदीं नरवरात्मजौउदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ३५

गृध्रराजः कृतवान्यशस्करंसुदुष्करं कर्म रणे निपातितःमहर्षिकल्पेन संस्कृतस्तदाजगाम पुण्यां गतिमात्मनः शुभाम्३६

इति श्रीरामायणे अरण्यकाण्डे चतुष्षष्टितमः सर्गः६४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved