॥ ॐ श्री गणपतये नमः ॥

६२ सर्गः

तं तथा शोकसंतप्तं विलपन्तमनाथवत्मोहेन महताविष्टं परिद्यूनमचेतनम्

ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणःरामं संबोधयामास चरणौ चाभिपीडयन्

महता तपसा राम महता चापि कर्मणाराज्ञा दशरथेनासील्लब्धोऽमृतमिवामरैः

तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिःराजा देवत्वमापन्नो भरतस्य यथा श्रुतम्

यदि दुःखमिदं प्राप्तं काकुत्स्थ सहिष्यसेप्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिष्यति

दुःखितो हि भवाँल्लोकांस्तेजसा यदि धक्ष्यतेआर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम्

लोकस्वभाव एवैष ययातिर्नहुषात्मजःगतः शक्रेण सालोक्यमनयस्तं समस्पृशत्

महर्षयो वसिष्ठस्तु यः पितुर्नः पुरोहितःअह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम्

या चेयं जगतो माता देवी लोकनमस्कृताअस्याश्च चलनं भूमेर्दृश्यते सत्यसंश्रव

यौ चेमौ जगतां नेत्रे यत्र सर्वं प्रतिष्ठितम्आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ१०

सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः११

शक्रादिष्वपि देवेषु वर्तमानौ नयानयौश्रूयेते नरशार्दूल त्वं व्यथितुमर्हसि१२

नष्टायामपि वैदेह्यां हृतायामपि चानघशोचितुं नार्हसे वीर यथान्यः प्राकृतस्तथा१३

त्वद्विधा हि शोचन्ति सततं सत्यदर्शिनःसुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शणाः१४

तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तयबुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे१५

अदृष्टगुणदोषाणामधृतानां कर्मणाम्नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते१६

मामेव हि पुरा वीर त्वमेव बहुषोऽन्वशाःअनुशिष्याद्धि को नु त्वामपि साक्षाद्बृहस्पतिः१७

बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वयाशोकेनाभिप्रसुप्तं ते ज्ञानं संबोधयाम्यहम्१८

दिव्यं मानुषं चैवमात्मनश्च पराक्रमम्इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां बधे१९

किं ते सर्वविनाशेन कृतेन पुरुषर्षभतमेव तु रिपुं पापं विज्ञायोद्धर्तुमर्हसि२०

इति श्रीरामायणे अरण्यकाण्डे द्विषष्टितमः सर्गः६२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved