॥ ॐ श्री गणपतये नमः ॥

५८ सर्गः

भृशमाव्रजमानस्य तस्याधोवामलोचनम्प्रास्फुरच्चास्खलद्रामो वेपथुश्चास्य जायते

उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुःअपि क्षेमं तु सीताया इति वै व्याजहार

त्वरमाणो जगामाथ सीतादर्शनलालसःशून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः

उद्भ्रमन्निव वेगेन विक्षिपन्रघुनन्दनःतत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः

ददर्श पर्णशालां रहितां सीतया तदाश्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव

रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम्श्रिया विहीनं विध्वस्तं संत्यक्तवनदैवतम्

विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम्दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः

हृता मृता वा नष्टा वा भक्षिता वा भविष्यतिनिलीनाप्यथ वा भीरुरथ वा वनमाश्रिता

गता विचेतुं पुष्पाणि फलान्यपि वा पुनःअथ वा पद्मिनीं याता जलार्थं वा नदीं गता

यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम्शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते१०

वृक्षाद्वृक्षं प्रधावन्स गिरींश्चापि नदीन्नदीम्बभूव विलपन्रामः शोकपङ्कार्णवप्लुतः११

अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रियाकदम्ब यदि जानीषे शंस सीतां शुभाननाम्१२

स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम्शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी१३

अथ वार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम्जनकस्य सुता भीरुर्यदि जीवति वा वा१४

ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम्लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः१५

भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम्एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम्१६

अशोकशोकापनुद शोकोपहतचेतसंत्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम्१७

यदि ताल त्वया दृष्टा पक्वतालफलस्तनीकथयस्व वरारोहां कारुष्यं यदि ते मयि१८

यदि दृष्टा त्वया सीता जम्बुजाम्बूनदप्रभाप्रियां यदि विजानीषे निःशङ्कं कथयस्व मे१९

अथ वा मृगशावाक्षीं मृग जानासि मैथिलीम्मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत्२०

गज सा गजनासोरुर्यदि दृष्टा त्वया भवेत्तां मन्ये विदितां तुभ्यमाख्याहि वरवारण२१

शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभाननामैथिली मम विस्रब्धः कथयस्व ते भयम्२२

किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणेवृक्षेणाच्छाद्य चात्मानं किं मां प्रतिभाषसे२३

तिष्ठ तिष्ठ वरारोहे तेऽस्ति करुणा मयिनात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे२४

पीतकौशेयकेनासि सूचिता वरवर्णिनिधावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम्२५

नैव सा नूनमथ वा हिंसिता चारुहासिनीकृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुमर्हति२६

व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैःविभज्याङ्गानि सर्वाणि मया विरहिता प्रिया२७

नूनं तच्छुभदन्तौष्ठं मुखं निष्प्रभतां गतम्सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेय शोभिता२८

कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभानूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ२९

भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौमया विरहिता बाला रक्षसां भक्षणाय वै३०

सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवाहा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित्३१

हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनःइत्येवं विलपन्रामः परिधावन्वनाद्वनम्३२

क्वचिदुद्भ्रमते वेगात्क्वचिद्विभ्रमते बलात्क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः३३

वनानि नदीः शैलान्गिरिप्रस्रवणानि काननानि वेगेन भ्रमत्यपरिसंस्थितः३४

तथा गत्वा विपुलं महद्वनंपरीत्य सर्वं त्वथ मैथिलीं प्रतिअनिष्ठिताशः चकार मार्गणेपुनः प्रियायाः परमं परिश्रमम्३५

इति श्रीरामायणे अरण्यकाण्डे अष्टपञ्चाशः सर्गः५८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved