॥ ॐ श्री गणपतये नमः ॥

५६ सर्गः

दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजःपर्यपृच्छत धर्मात्मा वैदेहीमागतं विना

प्रस्थितं दण्डकारण्यं या मामनुजगाम क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः

राज्यभ्रष्टस्य दीनस्य दण्डकान्परिधावतःक्व सा दुःखसहाया मे वैदेही तनुमध्यमा

यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम्क्व सा प्राणसहाया मे सीता सुरसुतोपमा

पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मणविना तां तपनीयाभां नेच्छेयं जनकात्मजाम्

कच्चिज्जीवति वैदेही प्राणैः प्रियतरा ममकच्चित्प्रव्राजनं सौम्य मे मिथ्या भविष्यति

सीतानिमित्तं सौमित्रे मृते मयि गते त्वयिकच्चित्सकामा सुखिता कैकेयी सा भविष्यति

सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनीउपस्थास्यति कौसल्या कच्चिन्सौम्य कैकयीम्

यदि जीवति वैदेही गमिष्याम्याश्रमं पुनःसुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण

यदि मामाश्रमगतं वैदेही नाभिभाषतेपुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण१०

ब्रूहि लक्ष्मण वैदेही यदि जीवति वा वात्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी११

सुकुमारी बाला नित्यं चादुःखदर्शिनीमद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः१२

सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मनावदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम्१३

श्रुतश्च शङ्के वैदेह्या स्वरः सदृशो ममत्रस्तया प्रेषितस्त्वं द्रष्टुं मां शीघ्रमागतः१४

सर्वथा तु कृतं कष्टं सीतामुत्सृजता वनेप्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम्१५

दुःखिताः खरघातेन राक्षसाः पिशिताशनाःतैः सीता निहता घोरैर्भविष्यति संशयः१६

अहोऽस्मि व्यसने मग्नः सर्वथा रिपुनाशनकिं त्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम्१७

इति सीतां वरारोहां चिन्तयन्नेव राघवःआजगाम जनस्थानं त्वरया सहलक्ष्मणः१८

विगर्हमाणोऽनुजमार्तरूपंक्षुधा श्रमाच्चैव पिपासया विनिःश्वसञ्शुष्कमुखो विषण्णःप्रतिश्रयं प्राप्य समीक्ष्य शून्यम्१९

स्वमाश्रमं संप्रविगाह्य वीरोविहारदेशाननुसृत्य कांश्चित्एतत्तदित्येव निवासभूमौप्रहृष्टरोमा व्यथितो बभूव२०

इति श्रीरामायणे अरण्यकाण्डे षट्पञ्चाशः सर्गः५६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved