॥ ॐ श्री गणपतये नमः ॥

५४ सर्गः

सा तथोक्ता तु वैदेही निर्भया शोककर्षितातृणमन्तरतः कृत्वा रावणं प्रत्यभाषत

राजा दशरथो नाम धर्मसेतुरिवाचलःसत्यसन्धः परिज्ञातो यस्य पुत्रः राघवः

रामो नाम धर्मात्मा त्रिषु लोकेषु विश्रुतःदीर्घबाहुर्विशालाक्षो दैवतं पतिर्मम

इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिःलक्ष्मणेन सह भ्रात्रा यस्ते प्राणां हरिष्यति

प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात्शयिता त्वं हतः संख्ये जनस्थाने यथा खरः

एते राक्षसाः प्रोक्ता घोररूपा महाबलाःराघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा

तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाःशरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः

असुरैर्वा सुरैर्वा त्वं यद्यवधोऽसि रावणउत्पाद्य सुमहद्वैरं जीवंस्तस्य मोक्ष्यसे

ते जीवितशेषस्य राघवोऽन्तकरो बलीपशोर्यूपगतस्येव जीवितं तव दुर्लभम्

यदि पश्येत्स रामस्त्वां रोषदीप्तेन चक्षुषारक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम्१०

यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वासागरं शोषयेद्वापि सीतां मोचयेदिह११

गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियःलङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति१२

ते पापमिदं कर्म सुखोदर्कं भविष्यतियाहं नीता विना भावं पतिपार्श्वात्त्वया वनात्१३

हि दैवतसंयुक्तो मम भर्ता महाद्युतिःनिर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके१४

ते दर्पं बलं वीर्यमुत्सेकं तथाविधम्अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे१५

यदा विनाशो भूतानां दृश्यते कालचोदितःतदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः१६

मां प्रधृष्य ते कालः प्राप्तोऽयं रक्षसाधमआत्मनो राक्षसानां वधायान्तःपुरस्य १७

शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्ड मण्डिताद्विजातिमन्त्रसंपूता चण्डालेनावमर्दितुम्१८

इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वानेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस हि शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः१९

एवमुक्त्वा तु वैदेही क्रोद्धात्सुपरुषं वचःरावणं मैथिली तत्र पुनर्नोवाच किंचन२०

सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्प्रत्युवाच ततः सीतां भयसंदर्शनं वचः२१

शृणु मैथिलि मद्वाक्यं मासान्द्वादश भामिनिकालेनानेन नाभ्येषि यदि मां चारुहासिनिततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः२२

इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणःराक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्२३

शीघ्रमेवं हि राक्षस्यो विकृता घोरदर्शनाःदर्पमस्या विनेष्यन्तु मांसशोणितभोजनाः२४

वचनादेव तास्तस्य विकृता घोरदर्शनाःकृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन्२५

ताः प्रोवाच राजा तु रावणो घोरदर्शनःप्रचाल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम्२६

अशोकवनिकामध्ये मैथिली नीयतामितितत्रेयं रक्ष्यतां गूढमुष्माभिः परिवारिता२७

तत्रैनां तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम्आनयध्वं वशं सर्वा वन्यां गजवधूमिव२८

इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताःअशोकवनिकां जग्मुर्मैथिलीं परिगृह्य ताम्२९

सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम्सर्वकालमदैश्चापि द्विजैः समुपसेविताम्३०

सा तु शोकपरीताङ्गी मैथिली जनकात्मजाराक्षसी वशमापन्ना व्याघ्रीणां हरिणी यथा३१

विन्दते तत्र तु शर्म मैथिलीविरूपनेत्राभिरतीव तर्जितापतिं स्मरन्ती दयितं देवरंविचेतनाभूद्भयशोकपीडिता३२

इति श्रीरामायणे अरण्यकाण्डे चतुःपञ्चाशः सर्गः५४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved