खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा।दुःखिता परमोद्विग्ना भये महति वर्तिनी॥ १
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम्।रुदती करुणं सीता ह्रियमाणेदमब्रवीत्॥ २
न व्यपत्रपसे नीच कर्मणानेन रावण।ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे॥ ३
त्वयैव नूनं दुष्टात्मन्भीरुणा हर्तुमिच्छता।ममापवाहितो भर्ता मृगरूपेण मायया।यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः॥ ४
परमं खलु ते वीर्यं दृश्यते राक्षसाधम।विश्राव्य नामधेयं हि युद्धे नास्ति जिता त्वया॥ ५
ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे।स्त्रियाश्च हरणं नीच रहिते च परस्य च॥ ६
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम्।सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः॥ ७
धिक्ते शौर्यं च सत्त्वं च यत्त्वया कथितं तदा।कुलाक्रोशकरं लोके धिक्ते चारित्रमीदृशम्॥ ८
किं शक्यं कर्तुमेवं हि यज्जवेनैव धावसि।मुहूर्तमपि तिष्ठस्व न जीवन्प्रतियास्यसि॥ ९
न हि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः।ससैन्योऽपि समर्तःस्त्वं मुहूर्तमपि जीवितुम्॥ १०
न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथंचन।वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः॥ ११
साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावण।मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम।विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि॥ १२
येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि।व्यवसायः स ते नीच भविष्यति निरर्थकः॥ १३
न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम्।उत्सहे शत्रुवशगा प्राणान्धारयितुं चिरम्॥ १४
न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे।मृत्युकाले यथा मर्त्यो विपरीतानि सेवते॥ १५
मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचते।पश्यामीव हि कण्ठे त्वां कालपाशावपाशितम्॥ १६
यथा चास्मिन्भयस्थाने न बिभेषे दशानन।व्यक्तं हिरण्मयान्हि त्वं संपश्यसि महीरुहान्॥ १७
नदीं वैरतणीं घोरां रुधिरौघनिवाहिनीम्।खड्गपत्रवनं चैव भीमं पश्यसि रावण॥ १८
तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम्।द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम्॥ १९
न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः।धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः॥ २०
बद्धस्त्वं कालपाशेन दुर्निवारेण रावण।क्व गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः॥ २१
निमेषान्तरमात्रेण विना भ्रातरमाहवे।राक्षसा निहता येन सहस्राणि चतुर्दश॥ २२
स कथं राघवो वीरः सर्वास्त्रकुशलो बली।न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम्॥ २३
एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा।भयशोकसमाविष्टा करुणं विललाप ह॥ २४
तथा भृशार्तां बहु चैव भाषिणींविललाप पूर्वं करुणं च भामिनीम्।जहार पापस्तरुणीं विवेष्टतींनृपात्मजामागतगात्रवेपथुम्॥ २५
इति श्रीरामायणे अरण्यकाण्डे एकपञ्चाशः सर्गः ॥ ५१