॥ ॐ श्री गणपतये नमः ॥

४२ सर्गः

तथा तु तं समादिश्य भ्रातरं रघुनन्दनःबबन्धासिं महातेजा जाम्बूनदमयत्सरुम्

ततस्त्रिविणतं चापमादायात्मविभूषणम्आबध्य कलापौ द्वौ जगामोदग्रविक्रमः

तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वैबभूवान्तर्हितस्त्रासात्पुनः संदर्शनेऽभवत्

बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगःतं पश्यति रूपेण द्योतमानमिवाग्रतः

अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावनेअतिवृत्तमिषोः पाताल्लोभयानं कदाचन

शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरेदश्यमानमदृश्यं नवोद्देशेषु केषुचित्

छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम्मुहूर्तादेव ददृशे मुहुर्दूरात्प्रकाशते

दर्शनादर्शनेनैव सोऽपाकर्षत राघवम्आसीत्क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः

अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वलेमृगैः परिवृतो वन्यैरदूरात्प्रत्यदृश्यत

दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयःसंधाय सुदृढे चापे विकृष्य बलवद्बली१०

तमेव मृगमुद्दिश्य ज्वलन्तमिव पन्नगम्मुमोच ज्वलितं दीप्तमस्त्रब्रह्मविनिर्मितम्११

भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमःमारीचस्यैव हृदयं विभेदाशनिसंनिभः१२

तालमात्रमथोत्पत्य न्यपतत्स शरातुरःव्यनदद्भैरवं नादं धरण्यामल्पजीवितःम्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम्१३

संप्राप्तकालमाज्ञाय चकार ततः स्वरम्सदृशं राघवस्यैव हा सीते लक्ष्मणेति १४

तेन मर्मणि निर्विद्धः शरेणानुपमेन हिमृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमात्मनःचक्रे सुमहाकायो मारीचो जीवितं त्यजन्१५

ततो विचित्रकेयूरः सर्वाभरणभूषितःहेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः१६

तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम्जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन्१७

हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वरम्ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत्१८

लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यतिइति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः१९

तत्र रामं भयं तीव्रमाविवेश विषादजम्राक्षसं मृगरूपं तं हत्वा श्रुत्वा तत्स्वरम्२०

निहत्य पृषतं चान्यं मांसमादाय राघवःत्वरमाणो जनस्थानं ससाराभिमुखस्तदा२१

इति श्रीरामायणे अरण्यकाण्डे द्विचत्वारिंशः सर्गः४२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved