॥ ॐ श्री गणपतये नमः ॥

३६ सर्गः

कदाचिदप्यहं वीर्यात्पर्यटन्पृथिवीमिमाम्बलं नागसहस्रस्य धारयन्पर्वतोपमः

नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलःभयं लोकस्य जनयन्किरीटी परिघायुधःव्यचरं दण्डकारण्यमृषिमांसानि भक्षयन्

विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिःस्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत्

अयं रक्षतु मां रामः पर्वकाले समाहितःमारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर

इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदाप्रत्युवाच महाभागं विश्वामित्रं महामुनिम्

ऊन षोडश वर्षोऽयमकृतास्त्रश्च राघवःकामं तु मम यत्सैन्यं मया सह गमिष्यतिबधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम्

इत्येवमुक्तः मुनी राजानं पुनरब्रवीत्रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः

बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहेगमिष्ये राममादाय स्वस्ति तेऽस्तु परंतपः

इत्येवमुक्त्वा मुनिस्तमादाय नृपात्मजम्जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम्

तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम्बभूवावस्थितो रामश्चित्रं विस्फारयन्धनुः१०

अजातव्यञ्जनः श्रीमान्बालः श्यामः शुभेक्षणःएकवस्त्रधरो धन्वी शिखी कनकमालया११

शोभयन्दण्डकारण्यं दीप्तेन स्वेन तेजसाअदृश्यत तदा रामो बालचन्द्र इवोदितः१२

ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलःबली दत्तवरो दर्पादाजगाम तदाश्रमम्१३

तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधःमां तु दृष्ट्वा धनुः सज्यमसंभ्रान्तश्चकार १४

अवजानन्नहं मोहाद्बालोऽयमिति राघवम्विश्वामित्रस्य तां वेदिमध्यधावं कृतत्वरः१५

तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणःतेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने१६

रामस्य शरवेगेन निरस्तो भ्रान्तचेतनःपातितोऽहं तदा तेन गम्भीरे सागराम्भसिप्राप्य संज्ञां चिरात्तात लङ्कां प्रति गतः पुरीम्१७

एवमस्मि तदा मुक्तः सहायास्ते निपातिताःअकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा१८

तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम्करिष्यस्यापदं घोरां क्षिप्रं प्राप्य नशिष्यसि१९

क्रीडा रतिविधिज्ञानां समाजोत्सवशालिनाम्रक्षसां चैव संतापमनर्थं चाहरिष्यसि२०

हर्म्यप्रासादसंबाधां नानारत्नविभूषिताम्द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते२१

अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात्परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा२२

दिव्यचन्दनदिग्धाङ्गान्दिव्याभरणभूषितान्द्रक्ष्यस्यभिहतान्भूमौ तव दोषात्तु राक्षसान्२३

हृतदारान्सदारांश्च दशविद्रवतो दिशःहतशेषानशरणान्द्रक्ष्यसि त्वं निशाचरान्२४

शरजालपरिक्षिप्तामग्निज्वालासमावृताम्प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वमसंशयम्२५

प्रमदानां सहस्राणि तव राजन्परिग्रहःभव स्वदारनिरतः स्वकुलं रक्षराक्षस२६

मानं वृद्धिं राज्यं जीवितं चेष्टमात्मनःयदीच्छसि चिरं भोक्तुं मा कृथा राम विप्रियम्२७

निवार्यमाणः सुहृदा मया भृशंप्रसह्य सीतां यदि धर्षयिष्यसिगमिष्यसि क्षीणबलः सबान्धवोयमक्षयं रामशरात्तजीवितः२८

इति श्रीरामायणे अरण्यकाण्डे षट्त्रिंशः सर्गः३६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved