॥ ॐ श्री गणपतये नमः ॥

१७ सर्गः

तां तु शूर्पणखां रामः कामपाशावपाशिताम्स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत्

कृतदारोऽस्मि भवति भार्येयं दयिता ममत्वद्विधानां तु नारीणां सुदुःखा ससपत्नता

अनुजस्त्वेष मे भ्राता शीलवान्प्रियदर्शनःश्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान्

अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनःअनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति

एनं भज विशालाक्षि भर्तारं भ्रातरं ममअसपत्ना वरारोहे मेरुमर्कप्रभा यथा

इति रामेण सा प्रोक्ता राक्षसी काममोहिताविसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत्

अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनीमया सह सुखं सर्वान्दण्डकान्विचरिष्यसि

एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदःततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत्

कथं दासस्य मे दासी भार्या भवितुमिच्छसिसोऽहमार्येण परवान्भ्रात्रा कमलवर्णिनि

समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनीआर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी१०

एतां विरूपामसतीं करालां निर्णतोदरीम्भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति११

को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनिमानुषेषु वरारोहे कुर्याद्भावं विचक्षणः१२

इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरीमन्यते तद्वचः सत्यं परिहासाविचक्षणा१३

सा रामं पर्णशालायामुपविष्टं परंतपम्सीतया सह दुर्धर्षमब्रवीत्काममोहिता१४

इमां विरूपामसतीं करालां निर्णतोदरीम्वृद्धां भार्यामवष्टभ्य मां त्वं बहु मन्यसे१५

अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम्त्वया सह चरिष्यामि निःसपत्ना यथासुखम्१६

इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणाअभ्यधावत्सुसंक्रुद्धा महोल्का रोहिणीमिव१७

तां मृत्युपाशप्रतिमामापतन्तीं महाबलःनिगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत्१८

क्रूरैरनार्यैः सौमित्रे परिहासः कथंचन कार्यः पश्य वैदेहीं कथंचित्सौम्य जीवतीम्१९

इमां विरूपामसतीमतिमत्तां महोदरीम्राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि२०

इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतःउद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः२१

निकृत्तकर्णनासा तु विस्वरं सा विनद्य यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्२२

सा विरूपा महाघोरा राक्षसी शोणितोक्षिताननाद विविधान्नादान्यथा प्रावृषि तोयदः२३

सा विक्षरन्ती रुधिरं बहुधा घोरदर्शनाप्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम्२४

ततस्तु सा राक्षससंघसंवृतंखरं जनस्थानगतं विरूपिताउपेत्य तं भ्रातरमुग्रतेजसंपपात भूमौ गगनाद्यथाशनिः२५

ततः सभार्यं भयमोहमूर्छितासलक्ष्मणं राघवमागतं वनम्विरूपणं चात्मनि शोणितोक्षिताशशंस सर्वं भगिनी खरस्य सा२६

इति श्रीरामायणे अरण्यकाण्डे सप्तदशः सर्गः१७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved