॥ ॐ श्री गणपतये नमः ॥

सर्गः

प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान्ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम्

कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्यथा प्रदीप्तं दुर्धर्शं गगने सूर्यमण्डलम्

शरण्यं सर्वभूतानां सुसमृष्टाजिरं सदापूजितं चोपनृत्तं नित्यमप्सरसां गणैः

विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैःसमिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्

आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम्बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्

पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या सपद्मयाफलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः

सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम्पुण्यैश नियताहारैः शोभितं परमर्षिभिः

तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्

तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः

दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयःअभ्यगच्छंस्तदा प्रीता वैदेहीं यशस्विनीम्१०

ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणःमङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन्दृढव्रताः११

रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्ददृशुर्विस्मिताकारा रामस्य वनवासिनः१२

वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिवआश्चर्यभूतान्ददृशुः सर्वे ते वनचारिणः१३

अत्रैनं हि महाभागाः सर्वभूतहिते रताःअतिथिं पर्णशालायां राघवं संन्यवेशयन्१४

ततो रामस्य सत्कृत्य विधिना पावकोपमाःआजह्रुस्ते महाभागाः सलिलं धर्मचारिणः१५

मूलं पुष्पं फलं वन्यमाश्रमं महात्मनःनिवेदयीत्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन्१६

धर्मपालो जनस्यास्य शरण्यश्च महायशाःपूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः१७

इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघवराजा तस्माद्वनान्भोगान्भुङ्क्ते लोकनमस्कृतः१८

ते वयं भवता रक्ष्या भवद्विषयवासिनःनगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः१९

न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाःरक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः२०

एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम्अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्२१

तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाःन्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्२२

इति श्रीरामायणे अरण्यकाण्डे प्रथमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved