॥ ॐ श्री गणपतये नमः ॥

११० सर्गः

सा त्वेवमुक्ता वैदेही अनसूयानसूययाप्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे

नैतदाश्चर्यमार्याया यन्मां त्वमनुभाषसेविदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः

यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितःअद्वैधमुपवर्तव्यस्तथाप्येष मया भवेत्

किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियःस्थिरानुरागो धर्मात्मा मातृवर्ती पितृ प्रियः

यां वृत्तिं वर्तते रामः कौसल्यायां महाबलःतामेव नृपनारीणामन्यासामपि वर्तते

सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलःमातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित्

आगच्छन्त्याश्च विजनं वनमेवं भयावहम्समाहितं हि मे श्वश्र्वा हृदये यत्स्थितं मम

प्राणिप्रदानकाले यत्पुरा त्वग्निसंनिधौअनुशिष्टा जनन्यास्मि वाक्यं तदपि मे धृतम्

नवीकृतं तु तत्सर्वं वाक्यैस्ते धर्मचारिणिपतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयतेतथा वृत्तिश्च याता त्वं पतिशुश्रूषया दिवम्१०

वरिष्ठा सर्वनारीणामेषा दिवि देवतारोहिणी विना चन्द्रं मुहूर्तमपि दृश्यते११

एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताःदेवलोके महीयन्ते पुण्येन स्वेन कर्मणा१२

ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचःशिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत१३

नियमैर्विविधैराप्तं तपो हि महदस्ति मेतत्संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते१४

उपपन्नं युक्तं वचनं तव मैथिलिप्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मेकृतमित्यब्रवीत्सीता तपोबलसमन्विताम्१५

सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत्सफलं प्रहर्षं ते हन्त सीते करोम्यहम्१६

इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि अङ्गरागं वैदेहि महार्हमनुलेपनम्१७

मया दत्तमिदं सीते तव गात्राणि शोभयेत्अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति१८

अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजेशोभयिष्यामि भर्तारं यथा श्रीर्विष्णुमव्ययम्१९

सा वस्त्रमङ्गरागं भूषणानि स्रजस्तथामैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम्२०

प्रतिगृह्य तत्सीता प्रीतिदानं यशस्विनीश्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम्२१

तथा सीतामुपासीनामनसूया दृढव्रतावचनं प्रष्टुमारेभे कथां कांचिदनुप्रियाम्२२

स्वयंवरे किल प्राप्ता त्वमनेन यशस्विनाराघवेणेति मे सीते कथा श्रुतिमुपागता२३

तां कथां श्रोतुमिच्छामि विस्तरेण मैथिलियथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि२४

एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम्श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम्२५

मिथिलाधिपतिर्वीरो जनको नाम धर्मवित्क्षत्रधर्मण्यभिरतो न्यायतः शास्ति मेदिनीम्२६

तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम्अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता२७

मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परःपांशु गुण्ठित सर्वाङ्गीं विस्मितो जनकोऽभवत्२८

अनपत्येन स्नेहादङ्कमारोप्य स्वयम्ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः२९

अन्तरिक्षे वागुक्ताप्रतिमा मानुषी किलएवमेतन्नरपते धर्मेण तनया तव३०

ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपःअवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः३१

दत्त्वा चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणातया संभाविता चास्मि स्निग्धया मातृसौहृदात्३२

पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिताचिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः३३

सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात्प्रधर्षणामवाप्नोति शक्रेणापि समो भुवि३४

तां धर्षणामदूरस्थां संदृश्यात्मनि पार्थिवःचिन्न्तार्णवगतः पारं नाससादाप्लवो यथ३५

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत्स चिन्तयन्सदृशं चानुरूपं महीपालः पतिं मम३६

तस्य बुद्धिरियं जाता चिन्तयानस्य संततम्स्वयं वरं तनूजायाः करिष्यामीति धीमतः३७

महायज्ञे तदा तस्य वरुणेन महात्मनादत्तं धनुर्वरं प्रीत्या तूणी चाक्षय्य सायकौ३८

असंचाल्यं मनुष्यैश्च यत्नेनापि गौरवात्तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः३९

तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिनासमवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान्४०

इदं धनुरुद्यम्य सज्यं यः कुरुते नरःतस्य मे दुहिता भार्या भविष्यति संशयः४१

तच्च दृष्ट्वा धनुःश्रेष्ठं गौरवाद्गिरिसंनिभम्अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने४२

सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिःविश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः४३

लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमःविश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः४४

प्रोवाच पितरं तत्र राघवो रामलक्ष्मणौसुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौइत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत्४५

निमेषान्तरमात्रेण तदानम्य वीर्यवान्ज्यां समारोप्य झटिति पूरयामास वीर्यवान्४६

तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुःतस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव४७

ततोऽहं तत्र रामाय पित्रा सत्याभिसंधिनाउद्यता दातुमुद्यम्य जलभाजनमुत्तमम्४८

दीयमानां तु तदा प्रतिजग्राह राघवःअविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः४९

ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम्मम पित्रा अहं दत्ता रामाय विदितात्मने५०

मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शनाभार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम्५१

एवं दत्तास्मि रामाय तदा तस्मिन्स्वयं वरेअनुरक्ता धर्मेण पतिं वीर्यवतां वरम्५२

इति श्रीरामायणे अयोध्याकाण्डे दशोत्तरशततमः सर्गः११०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved