॥ ॐ श्री गणपतये नमः ॥

१०३ सर्गः

वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितःअब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः

पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयःआचार्यश्चैव काकुत्स्थ पिता माता राघव

पिता ह्येनं जनयति पुरुषं पुरुषर्षभप्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते

तेऽहं पितुराचार्यस्तव चैव परंतपमम त्वं वचनं कुर्वन्नातिवर्तेः सतां गतिम्

इमा हि ते परिषदः श्रेणयश्च समागताःएषु तात चरन्धर्मं नातिवर्तेः सतां गतिम्

वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्तितुम्अस्यास्तु वचनं कुर्वन्नातिवर्तेः सतां गतिम्

भरतस्य वचः कुर्वन्याचमानस्य राघवआत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम

एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम्प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः

यन्मातापितरौ वृत्तं तनये कुरुतः सदा सुप्रतिकरं तत्तु मात्रा पित्रा यत्कृतम्

यथाशक्ति प्रदानेन स्नापनाच्छादनेन नित्यं प्रियवादेन तथा संवर्धनेन १०

हि राजा जनयिता पिता दशरथो ममआज्ञातं यन्मया तस्य तन्मिथ्या भविष्यति११

एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम्उवाच परमोदारः सूतं परमदुर्मनाः१२

इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथेआर्यं प्रत्युपवेक्ष्यामि यावन्मे प्रसीदति१३

अनाहारो निरालोको धनहीनो यथा द्विजःशेष्ये पुरस्ताच्छालाया यावन्न प्रतियास्यति१४

तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाःकुशोत्तरमुपस्थाप्य भूमावेवास्तरत्स्वयम्१५

तमुवाच महातेजा रामो राजर्षिसत्तमाःकिं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि१६

ब्राह्मणो ह्येकपार्श्वेन नरान्रोद्धुमिहार्हति तु मूर्धावसिक्तानां विधिः प्रत्युपवेशने१७

उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम्पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव१८

आसीनस्त्वेव भरतः पौरजानपदं जनम्उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ१९

ते तमूचुर्महात्मानं पौरजानपदा जनाःकाकुत्स्थमभिजानीमः सम्यग्वदति राघवः२०

एषोऽपि हि महाभागः पितुर्वचसि तिष्ठतिअत एव शक्ताः स्मो व्यावर्तयितुमञ्जसा२१

तेषामाज्ञाय वचनं रामो वचनमब्रवीत्एवं निबोध वचनं सुहृदां धर्मचक्षुषाम्२२

एतच्चैवोभयं श्रुत्वा सम्यक्संपश्य राघवउत्तिष्ठ त्वं महाबाहो मां स्पृश तथोदकम्२३

अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत्शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा२४

याचे पितरं राज्यं नानुशासामि मातरम्आर्यं परमधर्मज्ञमभिजानामि राघवम्२५

यदि त्ववश्यं वस्तव्यं कर्तव्यं पितुर्वचःअहमेव निवत्स्यामि चतुर्दश वने समाः२६

धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितःउवाच रामः संप्रेक्ष्य पौरजानपदं जनम्२७

विक्रीतमाहितं क्रीतं यत्पित्रा जीवता मम तल्लोपयितुं शक्यं मया वा भरतेन वा२८

उपधिर्न मया कार्यो वनवासे जुगुप्सितःयुक्तमुक्तं कैकेय्या पित्रा मे सुकृतं कृतम्२९

जानामि भरतं क्षान्तं गुरुसत्कारकारिणम्सर्वमेवात्र कल्याणं सत्यसंधे महात्मनि३०

अनेन धर्मशीलेन वनात्प्रत्यागतः पुनःभ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः३१

वृतो राजा हि कैकेय्या मया तद्वचनं कृतम्अनृतान्मोचयानेन पितरं तं महीपतिम्३२

इति श्रीरामायणे अयोध्याकाण्डे त्र्यधिकशततमः सर्गः१०३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved