॥ ॐ श्री गणपतये नमः ॥

१०२ सर्गः

क्रुद्धमाज्ञाय रामं तु वसिष्ठः प्रत्युवाच जाबालिरपि जानीते लोकस्यास्य गतागतिम्निवर्तयितुकामस्तु त्वामेतद्वाक्यमब्रवीत्

इमां लोकसमुत्पत्तिं लोकनाथ निबोध मेसर्वं सलिलमेवासीत्पृथिवी यत्र निर्मिताततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह

वराहस्ततो भूत्वा प्रोज्जहार वसुंधराम्असृजच्च जगत्सर्वं सह पुत्रैः कृतात्मभिः

आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययःतस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः

विवस्वान्कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः

यस्येयं प्रथमं दत्ता समृद्धा मनुना महीतमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्

इक्ष्वाकोस्तु सुतः श्रीमान्कुक्षिरेवेति विश्रुतःकुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत

विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्बाणस्य तु महाबाहुरनरण्यो महायशाः

नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरेअनरण्ये महाराजे तस्करो वापि कश्चन

अनरण्यान्महाबाहुः पृथू राजा बभूव तस्मात्पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत सत्यवचनाद्वीरः सशरीरो दिवं गतः१०

त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाःधुन्धुमारान्महातेजा युवनाश्वो व्यजायत११

युवनाश्वसुतः श्रीमान्मान्धाता समपद्यतमान्धातुस्तु महातेजाः सुसंधिरुदपद्यत१२

सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित्यशस्वी ध्रुवसंधेस्तु भरतो रिपुसूदनः१३

भरतात्तु महाबाहोरसितो नाम जायतयस्यैते प्रतिराजान उदपद्यन्त शत्रवःहैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः१४

तांस्तु सर्वान्प्रतिव्यूह्य युद्धे राजा प्रवासितः शैलवरे रम्ये बभूवाभिरतो मुनिःद्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः१५

भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितःतमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत्१६

तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनिततः सा गृहमागम्य देवी पुत्रं व्यजायत१७

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसयागरेण सह तेनैव जातः सगरोऽभवत्१८

राजा सगरो नाम यः समुद्रमखानयत्इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः१९

असमञ्जस्तु पुत्रोऽभूत्सगरस्येति नः श्रुतम्जीवन्नेव पित्रा तु निरस्तः पापकर्मकृत्२०

अंशुमानिति पुत्रोऽभूदसमञ्जस्य वीर्यवान्दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः२१

भगीरथात्ककुत्स्थस्तु काकुत्स्था येन तु स्मृताःककुत्स्थस्य तु पुत्रोऽभूद्रघुर्येन तु राघवः२२

रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकःकल्माषपादः सौदास इत्येवं प्रथितो भुवि२३

कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतःयस्तु तद्वीर्यमासाद्य सहसेनो व्यनीनशत्२४

शङ्खणस्य तु पुत्रोऽभूच्छूरः श्रीमान्सुदर्शनःसुदर्शनस्याग्निवर्ण अग्निवर्षस्य शीघ्रगः२५

शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकःप्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः२६

अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमःनहुषस्य नाभागः पुत्रः परमधार्मिकः२७

अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौअजस्य चैव धर्मात्मा राजा दशरथः सुतः२८

तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतःतद्गृहाण स्वकं राज्यमवेक्षस्व जगन्नृप२९

इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजःपूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते३०

राघवाणां कुलधर्ममात्मनःसनातनं नाद्य विहातुमर्हसिप्रभूतरत्नामनुशाधि मेदिनींप्रभूतराष्ट्रां पितृवन्महायशाः३१

इति श्रीरामायणे अयोध्याकाण्डे द्व्यधिकशततमः सर्गः१०२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved