॥ ॐ श्री गणपतये नमः ॥

९५ सर्गः

रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति

शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभज्येष्ठ पुत्रे स्थिते राजन्न कनीयान्भवेन्नृपः

समृद्धां मया सार्धमयोध्यां गच्छ राघवअभिषेचय चात्मानं कुलस्यास्य भवाय नः

राजानं मानुषं प्राहुर्देवत्वे संमतो ममयस्य धर्मार्थसहितं वृत्तमाहुरमानुषम्

केकयस्थे मयि तु त्वयि चारण्यमाश्रितेदिवमार्य गतो राजा यायजूकः सतां मतः

उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुःअहं चायं शत्रुघ्नः पूर्वमेव कृतोदकौ

प्रियेण किल दत्तं हि पितृलोकेषु राघवअक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः

तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम्राघवो भरतेनोक्तां बभूव गतचेतनः

वाग्वज्रं भरतेनोक्तममनोज्ञं परंतपःप्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमःवने परशुना कृत्तस्तथा भुवि पपात

तथा हि पतितं रामं जगत्यां जगतीपतिम्कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम्१०

भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम्रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै११

तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन्उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम्१२

किं नु तस्य मया कार्यं दुर्जातेन महात्मनायो मृतो मम शोकेन मया चापि संस्कृतः१३

अहो भरत सिद्धार्थो येन राजा त्वयानघशत्रुघेण सर्वेषु प्रेतकृत्येषु सत्कृतः१४

निष्प्रधानामनेकाग्रं नरेन्द्रेण विनाकृताम्निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे१५

समाप्तवनवासं मामयोध्यायां परंतपको नु शासिष्यति पुनस्ताते लोकान्तरं गते१६

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन्वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम्१७

एवमुक्त्वा भरतं भार्यामभ्येत्य राघवःउवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम्१८

सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मणभरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम्१९

सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम्उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः२०

आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम्जलक्रियार्थं तातस्य गमिष्यामि महात्मनः२१

सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रजअहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा२२

ततो नित्यानुगस्तेषां विदितात्मा महामतिःमृदुर्दान्तश्च शान्तश्च रामे दृढ भक्तिमान्२३

सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम्अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम्२४

ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनःनदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम्२५

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम्सिषिचुस्तूदकं राज्ञे तत एतद्भवत्विति२६

प्रगृह्य महीपालो जलपूरितमञ्जलिम्दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत्२७

एतत्ते राजशार्दूल विमलं तोयमक्षयम्पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु२८

ततो मन्दाकिनी तीरात्प्रत्युत्तीर्य राघवःपितुश्चकार तेजस्वी निवापं भ्रातृभिः सह२९

ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरेन्यस्य रामः सुदुःखार्तो रुदन्वचनमब्रवीत्३०

इदं भुङ्क्ष्व महाराजप्रीतो यदशना वयम्यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः३१

ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात्आरुरोह नरव्याघ्रो रम्यसानुं महीधरम्३२

ततः पर्णकुटीद्वारमासाद्य जगतीपतिःपरिजग्राह पाणिभ्यामुभौ भरतलक्ष्मणौ३३

तेषां तु रुदतां शब्दात्प्रतिश्रुत्काभवद्गिरौभ्रातॄणां सह वैदेह्या सिंहानां नर्दतामिव३४

विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाःअब्रुवंश्चापि रामेण भरतः संगतो ध्रुवम्तेषामेव महाञ्शब्दः शोचतां पितरं मृतम्३५

अथ वासान्परित्यज्य तं सर्वेऽभिमुखाः स्वनम्अप्येक मनसो जग्मुर्यथास्थानं प्रधाविताः३६

हयैरन्ये गजैरन्ये रथैरन्ये स्वलंकृतैःसुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः३७

अचिरप्रोषितं रामं चिरविप्रोषितं यथाद्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम्३८

भ्रातॄणां त्वरितास्ते तु द्रष्टुकामाः समागमम्ययुर्बहुविधैर्यानैः खुरनेमिसमाकुलैः३९

सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहतामुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे४०

तेन वित्रासिता नागाः करेणुपरिवारिताःआवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः४१

वराहमृगसिंहाश्च महिषाः सर्क्षवानराःव्याघ्र गोकर्णगवया वित्रेषुः पृषतैः सह४२

रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाःतथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः४३

तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम्मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा४४

तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथ सुदुःखितान्पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः४५

तत्र कांश्चित्परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन्चकार सर्वान्सवयस्यबान्धवान्यथार्हमासाद्य तदा नृपात्मजः४६

ततः तेषां रुदतां महात्मनांभुवं खं चानुविनादयन्स्वनःगुहा गिरीणां दिशश्च संततंमृदङ्गघोषप्रतिमो विशुश्रुवे४७

इति श्रीरामायणे अयोध्याकाण्डे पञ्चनवतितमः सर्गः९५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved