आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः।अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः॥ १
क्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः।न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि॥ २
चिरस्य बत पश्यामि दूराद्भरतमागतम्।दुष्प्रतीकमरण्येऽस्मिन्किं तात वनमागतः॥ ३
कच्चिद्दशरथो राजा कुशली सत्यसंगरः।राजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः॥ ४
स कच्चिद्ब्राह्मणो विद्वान्धर्मनित्यो महाद्युतिः।इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते॥ ५
तात कच्चिच्च कौसल्या सुमित्रा च प्रजावती।सुखिनी कच्चिदार्या च देवी नन्दति कैकयी॥ ६
कच्चिद्विनय संपन्नः कुलपुत्रो बहुश्रुतः।अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः॥ ७
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः।हुतं च होष्यमाणं च काले वेदयते सदा॥ ८
इष्वस्त्रवरसंपन्नमर्थशास्त्रविशारदम्।सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे॥ ९
कच्चिदात्म समाः शूराः श्रुतवन्तो जितेन्द्रियाः।कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः॥ १०
मन्त्रो विजयमूलं हि राज्ञां भवति राघव।सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः॥ ११
कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे।कच्चिंश्चापररात्रिषु चिन्तयस्यर्थनैपुणम्॥ १२
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह।कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति॥ १३
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम्।क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव॥ १४
कच्चित्तु सुकृतान्येव कृतरूपाणि वा पुनः।विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः॥ १५
कच्चिन्न तर्कैर्युक्त्वा वा ये चाप्यपरिकीर्तिताः।त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम्॥ १६
कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम्।पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत्॥ १७
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः।अथ वाप्ययुतान्येव नास्ति तेषु सहायता॥ १८
एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः।राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम्॥ १९
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः।जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः॥ २०
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन्।श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु॥ २१
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा।उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः॥ २२
उपायकुशलं वैद्यं भृत्यसंदूषणे रतम्।शूरमैश्वर्यकामं च यो न हन्ति स वध्यते॥ २३
कच्चिद्धृष्टश्च शूरश्च धृतिमान्मतिमाञ्शुचिः।कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः॥ २४
बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः।दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः॥ २५
कचिद्बलस्य भक्तं च वेतनं च यथोचितम्।संप्राप्तकालं दातव्यं ददासि न विलम्बसे॥ २६
कालातिक्रमणे ह्येव भक्त वेतनयोर्भृताः।भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान्स्मृतः॥ २७
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः।कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति समाहिताः॥ २८
कच्चिज्जानपदो विद्वान्दक्षिणः प्रतिभानवान्।यथोक्तवादी दूतस्ते कृतो भरत पण्डितः॥ २९
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च।त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः॥ ३०
कच्चिद्व्यपास्तानहितान्प्रतियातांश्च सर्वदा।दुर्बलाननवज्ञाय वर्तसे रिपुसूदन॥ ३१
कच्चिन्न लोकायतिकान्ब्राह्मणांस्तात सेवसे।अनर्थ कुशला ह्येते बालाः पण्डितमानिनः॥ ३२
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः।बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते॥ ३३
वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः।सत्यनामां दृढद्वारां हस्त्यश्वरथसंकुलाम्॥ ३४
ब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा।जितेन्द्रियैर्महोत्साहैर्वृतामात्यैः सहस्रशः॥ ३५
प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम्।कच्चित्समुदितां स्फीतामयोध्यां परिरक्षसि॥ ३६
कच्चिच्चैत्यशतैर्जुष्टः सुनिविष्टजनाकुलः।देवस्थानैः प्रपाभिश्च तडागैश्चोपशोभितः॥ ३७
प्रहृष्टनरनारीकः समाजोत्सवशोभितः।सुकृष्टसीमा पशुमान्हिंसाभिरभिवर्जितः॥ ३८
अदेवमातृको रम्यः श्वापदैः परिवर्जितः।कच्चिज्जनपदः स्फीतः सुखं वसति राघव॥ ३९
कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः।वार्तायां संश्रितस्तात लोको हि सुखमेधते॥ ४०
तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम्।रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः॥ ४१
कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः।कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे॥ ४२
कच्चिन्नागवनं गुप्तं कुञ्जराणां च तृप्यसि।कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम्।उत्थायोत्थाय पूर्वाह्णे राजपुत्रो महापथे॥ ४३
कच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः।यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः॥ ४४
आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः।अपात्रेषु न ते कच्चित्कोशो गच्छति राघव॥ ४५
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च।योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः॥ ४६
कच्चिदार्यो विशुद्धात्मा क्षारितश्चोरकर्मणा।अपृष्टः शास्त्रकुशलैर्न लोभाद्बध्यते शुचिः॥ ४७
गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः।कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ॥ ४८
व्यसने कच्चिदाढ्यस्य दुगतस्य च राघव।अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः॥ ४९
यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव।तानि पुत्रपशून्घ्नन्ति प्रीत्यर्थमनुशासतः॥ ५०
कच्चिद्वृधांश्च बालांश्च वैद्यमुख्यांश्च राघव।दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे॥ ५१
कच्चिद्गुरूंश्च वृद्धांश्च तापसान्देवतातिथीन्।चैत्यांश्च सर्वान्सिद्धार्थान्ब्राह्मणांश्च नमस्यसि॥ ५२
कच्चिदर्थेन वा धर्मं धर्मं धर्मेण वा पुनः।उभौ वा प्रीतिलोभेन कामेन न विबाधसे॥ ५३
कच्चिदर्थं च धर्मं च कामं च जयतां वर।विभज्य काले कालज्ञ सर्वान्भरत सेवसे॥ ५४
कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदः।आशंसन्ते महाप्राज्ञ पौरजानपदैः सह॥ ५५
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्।अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम्॥ ५६
एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम्।निश्चितानामनारम्भं मन्त्रस्यापरिलक्षणम्॥ ५७
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वशः।कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश॥ ५८
कच्चित्स्वादुकृतं भोज्यमेको नाश्नासि राघव।कच्चिदाशंसमानेभ्यो मित्रेभ्यः संप्रयच्छसि॥ ५९
इति श्रीरामायणे अयोध्याकाण्डे चतुर्नवतितमः सर्गः ॥ ९४