निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः।अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम्॥ १
निविष्ट मात्रे सैन्ये तु यथोद्देशं विनीतवत्।भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत्॥ २
क्षिप्रं वनमिदं सौम्य नरसंघैः समन्ततः।लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि॥ ३
यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्।वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति॥ ४
यावन्न चन्द्रसंकाशं द्रक्ष्यामि शुभमाननम्।भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति॥ ५
यावन्न चरणौ भ्रातुः पार्थिव व्यञ्जनान्वितौ।शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति॥ ६
यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः।अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति॥ ७
कृतकृत्या महाभागा वैदेही जनकात्मजा।भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति॥ ८
सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः।यस्मिन्वसति काकुत्स्थः कुबेर इवनन्दने॥ ९
कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्।यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः॥ १०
एवमुक्त्वा महातेजा भरतः पुरुषर्षभः।पद्भ्यामेव महातेजाः प्रविवेश महद्वनम्॥ ११
स तानि द्रुमजालानि जातानि गिरिसानुषु।पुष्पिताग्राणि मध्येन जगाम वदतां वरः॥ १२
स गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम्।रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम्॥ १३
तं दृष्ट्वा भरतः श्रीमान्मुमोद सहबान्धवः।अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः॥ १४
स चित्रकूटे तु गिरौ निशाम्यरामाश्रमं पुण्यजनोपपन्नम्।गुहेन सार्धं त्वरितो जगामपुनर्निवेश्यैव चमूं महात्मा॥ १५
इति श्रीरामायणे अयोध्याकाण्डे द्विनवतितमः सर्गः ॥ ९२