सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम्।रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत्॥ १
किमत्र धनुषा कार्यमसिना वा सचर्मणा।महेष्वासे महाप्राज्ञे भरते स्वयमागते॥ २
प्राप्तकालं यदेषोऽस्मान्भरतो द्रष्टुमिच्छति।अस्मासु मनसाप्येष नाहितं किंचिदाचरेत्॥ ३
विप्रियं कृतपूर्वं ते भरतेन कदा न किम्।ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे॥ ४
न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः।अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते॥ ५
कथं नु पुत्राः पितरं हन्युः कस्यांचिदापदि।भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः॥ ६
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे।वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम्॥ ७
उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतः।राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति॥ ८
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः।लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया॥ ९
व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह।एष मन्ये महाबाहुरिहास्मान्द्रष्टुमागतः॥ १०
वनवासमनुध्याय गृहाय प्रतिनेष्यति।इमां वाप्येश वैदेहीमत्यन्तसुखसेविनीम्॥ ११
एतौ तौ संप्रकाशेते गोत्रवन्तौ मनोरमौ।वायुवेगसमौ वीर जवनौ तुरगोत्तमौ॥ १२
स एष सुमहाकायः कम्पते वाहिनीमुखे।नागः शत्रुंजयो नाम वृद्धस्तातस्य धीमतः॥ १३
अवतीर्य तु सालाग्रात्तस्मात्स समितिंजयः।लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः॥ १४
भरतेनाथ संदिष्टा संमर्दो न भवेदिति।समन्तात्तस्य शैलस्य सेनावासमकल्पयत्॥ १५
अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा।पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला॥ १६
सा चित्रकूटे भरतेन सेनाधर्मं पुरस्कृत्य विधूय दर्पम्।प्रसादनार्थं रघुनन्दनस्यविरोचते नीतिमता प्रणीता॥ १७
इति श्रीरामायणे अयोध्याकाण्डे एकनवतितमः सर्गः ॥ ९१