अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः।अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम्॥ १
अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम्।विदेहराजस्य सुतां रामो राजीवलोचनः॥ २
विचित्रपुलिनां रम्यां हंससारससेविताम्।कुसुमैरुपसंपन्नां पश्य मन्दाकिनीं नदीम्॥ ३
नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः।राजन्तीं राजराजस्य नलिनीमिव सर्वतः॥ ४
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम्।तीर्थानि रमणीयानि रतिं संजनयन्ति मे॥ ५
जटाजिनधराः काले वल्कलोत्तरवाससः।ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये॥ ६
आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः।एतेऽपरे विशालाक्षि मुनयः संशितव्रताः॥ ७
मारुतोद्धूत शिखरैः प्रनृत्त इव पर्वतः।पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम्॥ ८
कच्चिन्मणिनिकाशोदां कच्चित्पुलिनशालिनीम्।कच्चित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम्॥ ९
निर्धूतान्वायुना पश्य विततान्पुष्पसंचयान्।पोप्लूयमानानपरान्पश्य त्वं जलमध्यगान्॥ १०
तांश्चातिवल्गु वचसो रथाङ्गाह्वयना द्विजाः।अधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः॥ ११
दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने।अधिकं पुरवासाच्च मन्ये च तव दर्शनात्॥ १२
विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः।नित्यविक्षोभित जलां विहाहस्व मया सह॥ १३
सखीवच्च विगाहस्व सीते मन्दकिनीमिमाम्।कमलान्यवमज्जन्ती पुष्कराणि च भामिनि॥ १४
त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम्।मन्यस्व वनिते नित्यं सरयूवदिमां नदीम्॥ १५
लक्ष्मणश्चैव धर्मात्मा मन्निदेशे व्यवस्थितः।त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम॥ १६
उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः।नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह॥ १७
इमां हि रम्यां गजयूथलोलितांनिपीततोयां गजसिंहवानरैः।सुपुष्पितैः पुष्पधरैरलंकृतांन सोऽस्ति यः स्यान्न गतक्रमः सुखी॥ १८
इतीव रामो बहुसंगतं वचःप्रिया सहायः सरितं प्रति ब्रुवन्।चचार रम्यं नयनाञ्जनप्रभंस चित्रकूटं रघुवंशवर्धनः॥ १९
इति श्रीरामायणे अयोध्याकाण्डे एकोननवतितमः सर्गः ॥ ८९