॥ ॐ श्री गणपतये नमः ॥

७३ सर्गः

ततः प्रभातसमये दिवसेऽथ चतुर्दशेसमेत्य राजकर्तारो भरतं वाक्यमब्रुवन्

गतो दशरथः स्वर्गं यो नो गुरुतरो गुरुःरामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं महाबलम्

त्वमद्य भव नो राजा राजपुत्र महायशःसंगत्या नापराध्नोति राज्यमेतदनायकम्

आभिषेचनिकं सर्वमिदमादाय राघवप्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज

राज्यं गृहाण भरत पितृपैतामहं महत्अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ

आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम्भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रतः

ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नःनैवं भवन्तो मां वक्तुमर्हन्ति कुशला जनाः

रामः पूर्वो हि नो भ्राता भविष्यति महीपतिःअहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च

युज्यतां महती सेना चतुरङ्गमहाबलाआनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात्

आभिषेचनिकं चैव सर्वमेतदुपस्कृतम्पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति१०

तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम्आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात्११

सकामा करिष्यामि स्वमिमां मातृगन्धिनीम्वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति१२

क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि रक्षिणश्चानुसंयान्तु पथि दुर्गविचारकाः१३

एवं संभाषमाणं तं रामहेतोर्नृपात्मजम्प्रत्युवाच जनः सर्वः श्रीमद्वाक्यमनुत्तमम्१४

एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम्यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि१५

अनुत्तमं तद्वचनं नृपात्मजप्रभाषितं संश्रवणे निशम्य प्रहर्षजास्तं प्रति बाष्पबिन्दवोनिपेतुरार्यानननेत्रसंभवाः१६

ऊचुस्ते वचनमिदं निशम्य हृष्टाःसामात्याः सपरिषदो वियातशोकाःपन्थानं नरवरभक्तिमाञ्जनश्चव्यादिष्टस्तव वचनाच्च शिल्पिवर्गः१७

इति श्रीरामायणे अयोध्याकाण्डे त्रिसप्ततितमः सर्गः७३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved