॥ ॐ श्री गणपतये नमः ॥

७० सर्गः

तमेवं शोकसंतप्तं भरतं केकयीसुतम्उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः

अलं शोकेन भद्रं ते राजपुत्र महायशःप्राप्तकालं नरपतेः कुरु संयानमुत्तरम्

वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतःप्रेतकार्याणि सर्वाणि कारयामास धर्मवित्

उद्धृतं तैलसंक्लेदात्स तु भूमौ निवेशितम्आपीतवर्णवदनं प्रसुप्तमिव भूमिपम्

निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृतेततो दशरथं पुत्रो विललाप सुदुःखितः

किं ते व्यवसितं राजन्प्रोषिते मय्यनागतेविवास्य रामं धर्मज्ञं लक्ष्मणं महाबलम्

क्व यास्यसि महाराज हित्वेमं दुःखितं जनम्हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा

योगक्षेमं तु ते राजन्कोऽस्मिन्कल्पयिता पुरेत्वयि प्रयाते स्वस्तात रामे वनमाश्रिते

विधवा पृथिवी राजंस्त्वया हीना राजतेहीनचन्द्रेव रजनी नगरी प्रतिभाति माम्

एवं विलपमानं तं भरतं दीनमानसम्अब्रवीद्वचनं भूयो वसिष्ठस्तु महानृषिः१०

प्रेतकार्याणि यान्यस्य कर्तव्यानि विशाम्पतेःतान्यव्यग्रं महाबाहो क्रियतामविचारितम्११

तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत्ऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः१२

ये त्वग्रतो नरेन्द्रस्य अग्न्यगाराद्बहिष्कृताःऋत्विग्भिर्याजकैश्चैव ते ह्रियन्ते यथाविधि१३

शिबिलायामथारोप्य राजानं गतचेतनम्बाष्पकण्ठा विमनसस्तमूहुः परिचारकाः१४

हिरण्यं सुवर्णं वासांसि विविधानि प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः१५

चन्दनागुरुनिर्यासान्सरलं पद्मकं तथादेवदारूणि चाहृत्य चितां चक्रुस्तथापरे१६

गन्धानुच्चावचांश्चान्यांस्तत्र दत्त्वाथ भूमिपम्ततः संवेशयामासुश्चितामध्ये तमृत्विजः१७

तथा हुताशनं हुत्वा जेपुस्तस्य तदर्त्विजःजगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः१८

शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितःनगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा१९

प्रसव्यं चापि तं चक्रुरृत्विजोऽग्निचितं नृपम्स्त्रियश्च शोकसंतप्ताः कौसल्या प्रमुखास्तदा२०

क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवेआर्तानां करुणं काले क्रोशन्तीनां सहस्रशः२१

ततो रुदन्त्यो विवशा विलप्य पुनः पुनःयानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः२२

कृतोदकं ते भरतेन सार्धंनृपाङ्गना मन्त्रिपुरोहिताश्चपुरं प्रविश्याश्रुपरीतनेत्राभूमौ दशाहं व्यनयन्त दुःखम्२३

इति श्रीरामायणे अयोध्याकाण्डे सप्ततितमः सर्गः७०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved