॥ ॐ श्री गणपतये नमः ॥

६५ सर्गः

प्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान्ह्रादिनीं दूरपारां प्रत्यक्स्रोतस्तरङ्गिणीम्शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः

एलधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान्शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम्

सत्यसंधः शुचिः श्रीमान्प्रेक्षमाणः शिलावहाम्अत्ययात्स महाशैलान्वनं चैत्ररथं प्रति

वेगिनीं कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम्यमुनां प्राप्य संतीर्णो बलमाश्वासयत्तदा

शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनःतत्र स्नात्वा पीत्वा प्रायादादाय चोदकम्

राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम्भद्रो भद्रेण यानेन मारुतः खमिवात्ययात्

तोरणं दक्षिणार्धेन जम्बूप्रस्थमुपागमत्वरूथं ययौ रम्यं ग्रामं दशरथात्मजः

तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौउद्यानमुज्जिहानायाः प्रियका यत्र पादपाः

सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनःअनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ

वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम्अन्या नदीश्च विविधाः पार्वतीयैस्तुरंगमैः१०

हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्ततततार नरव्याघ्रो लौहित्ये कपीवतीम्एकसाले स्थाणुमतीं विनते गोमतीं नदीम्११

कलिङ्ग नगरे चापि प्राप्य सालवनं तदाभरतः क्षिप्रमागच्छत्सुपरिश्रान्तवाहनः१२

वनं समतीत्याशु शर्वर्यामरुणोदयेअयोध्यां मनुना राज्ञा निर्मितां ददर्श १३

तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषिटः पथिअयोध्यामग्रतो दृष्ट्वा रथे सारथिमब्रवीत्१४

एषा नातिप्रतीता मे पुण्योद्याना यशस्विनीअयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका१५

यज्वभिर्गुणसंपन्नैर्ब्राह्मणैर्वेदपारगैःभूयिष्ठमृद्धैराकीर्णा राजर्षिवरपालिता१६

अयोध्यायां पुराशब्दः श्रूयते तुमुलो महान्समन्तान्नरनारीणां तमद्य शृणोम्यहम्१७

उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैःसमन्ताद्विप्रधावद्भिः प्रकाशन्ते ममान्यदा१८

तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिःअरण्यभूतेव पुरी सारथे प्रतिभाति मे१९

ह्यत्र यानैर्दृश्यन्ते गजैर्न वाजिभिःनिर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम्२०

अनिष्टानि पापानि पश्यामि विविधानि निमित्तान्यमनोज्ञानि तेन सीदति ते मनः२१

द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनःद्वाःस्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ२२

त्वनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम्सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः२३

श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशनेआकारास्तानहं सर्वानिह पश्यामि सारथे२४

मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम्सस्त्री पुंसं पश्यामि जनमुत्कण्ठितं पुरे२५

इत्येवमुक्त्वा भरतः सूतं तं दीनमानसःतान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ२६

तां शून्यशृङ्गाटकवेश्मरथ्यांरजोरुणद्वारकपाटयन्त्राम्दृष्ट्वा पुरीमिन्द्रपुरी प्रकाशांदुःखेन संपूर्णतरो बभूव२७

बहूनि पश्यन्मनसोऽप्रियाणियान्यन्न्यदा नास्य पुरे बभूवुःअवाक्शिरा दीनमना नहृष्टःपितुर्महात्मा प्रविवेश वेश्म२८

इति श्रीरामायणे अयोध्याकाण्डे पञ्चषष्टितमः सर्गः६५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved