भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः।प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम्॥ १
समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः।राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः॥ २
पुरोहितस्त्वा कुशलं प्राह सर्वे च मन्त्रिणः।त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया॥ ३
अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते।दशकोट्यस्तु संपूर्णास्तथैव च नृपात्मज॥ ४
प्रतिगृह्य च तत्सर्वं स्वनुरक्तः सुहृज्जने।दूतानुवाच भरतः कामैः संप्रतिपूज्य तान्॥ ५
कच्चित्सुकुशली राजा पिता दशरथो मम।कच्चिच्चारागता रामे लक्ष्मणे वा महात्मनि॥ ६
आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी।अरोगा चापि कौसल्या माता रामस्य धीमतः॥ ७
कच्चित्सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या।शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा॥ ८
आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी।अरोगा चापि कैकेयी माता मे किमुवाच ह॥ ९
एवमुक्तास्तु ते दूता भरतेन महात्मना।ऊचुः संप्रश्रितं वाक्यमिदं तं भरतं तदा।कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि॥ १०
भरतश्चापि तान्दूतानेवमुक्तोऽभ्यभाषत।आपृच्छेऽहं महाराजं दूताः संत्वरयन्ति माम्॥ ११
एवमुक्त्वा तु तान्दूतान्भरतः पार्थिवात्मजः।दूतैः संचोदितो वाक्यं मातामहमुवाच ह॥ १२
राजन्पितुर्गमिष्यामि सकाशं दूतचोदितः।पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि॥ १३
भरतेनैवमुक्तस्तु नृपो मातामहस्तदा।तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम्॥ १४
गच्छ तातानुजाने त्वां कैकेयी सुप्रजास्त्वया।मातरं कुशलं ब्रूयाः पितरं च परंतप॥ १५
पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः।तौ च तात महेष्वासौ भ्रातरु रामलक्ष्मणौ॥ १६
तस्मै हस्त्युत्तमांश्चित्रान्कम्बलानजिनानि च।अभिसत्कृत्य कैकेयो भरताय धनं ददौ॥ १७
रुक्म निष्कसहस्रे द्वे षोडशाश्वशतानि च।सत्कृत्य कैकेयी पुत्रं केकयो धनमादिशत्॥ १८
तथामात्यानभिप्रेतान्विश्वास्यांश्च गुणान्वितान्।ददावश्वपतिः शीघ्रं भरतायानुयायिनः॥ १९
ऐरावतानैन्द्रशिरान्नागान्वै प्रियदर्शनान्।खराञ्शीघ्रान्सुसंयुक्तान्मातुलोऽस्मै धनं ददौ॥ २०
अन्तःपुरेऽतिसंवृद्धान्व्याघ्रवीर्यबलान्वितान्।दंष्ट्रायुधान्महाकायाञ्शुनश्चोपायनं ददौ॥ २१
स मातामहमापृच्छ्य मातुलं च युधाजितम्।रथमारुह्य भरतः शत्रुघ्नसहितो ययौ॥ २२
रथान्मण्डलचक्रांश्च योजयित्वा परःशतम्।उष्ट्रगोश्वखरैर्भृत्या भरतं यान्तमन्वयुः॥ २३
बलेन गुप्तो भरतो महात्मासहार्यकस्यात्मसमैरमात्यैः।आदाय शत्रुघ्नमपेतशत्रुर्गृहाद्ययौ सिद्ध इवेन्द्रलोकात्॥ २४
इति श्रीरामायणे अयोध्याकाण्डे चतुष्षष्टितमः सर्गः ॥ ६४