तदज्ञानान्महत्पापं कृत्वा संकुलितेन्द्रियः।एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत्॥ १
ततस्तं घटमादय पूर्णं परमवारिणा।आश्रमं तमहं प्राप्य यथाख्यातपथं गतः॥ २
तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ।अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ॥ ३
तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ।तामाशां मत्कृते हीनावुदासीनावनाथवत्॥ ४
पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत।किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय॥ ५
यन्निमित्तमिदं तात सलिले क्रीडितं त्वया।उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम्॥ ६
यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया।न तन्मनसि कर्तव्यं त्वया तात तपस्विना॥ ७
त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम्।समासक्तास्त्वयि प्राणाः किंचिन्नौ नाभिभाषसे॥ ८
मुनिमव्यक्तया वाचा तमहं सज्जमानया।हीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रुवम्॥ ९
मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम्।आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम्॥ १०
क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः।सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम्॥ ११
भगवंश्चापहस्तोऽहं सरयूतीरमागतः।जिघांसुः श्वापदं किंचिन्निपाने वागतं गजम्॥ १२
तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः।द्विपोऽयमिति मत्वा हि बाणेनाभिहतो मया॥ १३
गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदि।विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम्॥ १४
भगवञ्शब्दमालक्ष्य मया गजजिघांसुना।विसृष्टोऽम्भसि नाराचस्तेन ते निहतः सुतः॥ १५
स चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थितः।भगवन्तावुभौ शोचन्नन्धाविति विलप्य च॥ १६
अज्ञानाद्भवतः पुत्रः सहसाभिहतो मया।शेषमेवंगते यत्स्यात्तत्प्रसीदतु मे मुनिः॥ १७
स तच्छ्रुत्वा वचः क्रूरं निःश्वसञ्शोककर्शितः।मामुवाच महातेजाः कृताञ्जलिमुपस्थितम्॥ १८
यद्येतदशुभं कर्म न स्म मे कथयेः स्वयम्।फलेन्मूर्धा स्म ते राजन्सद्यः शतसहस्रधा॥ १९
क्षत्रियेण वधो राजन्वानप्रस्थे विशेषतः।ज्ञानपूर्वं कृतः स्थानाच्च्यावयेदपि वज्रिणम्॥ २०
अज्ञानाद्धि कृतं यस्मादिदं तेनैव जीवसि।अपि ह्यद्य कुलं नस्याद्राघवाणां कुतो भवान्॥ २१
नय नौ नृप तं देशमिति मां चाभ्यभाषत।अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम्॥ २२
रुधिरेणावसिताङ्गं प्रकीर्णाजिनवाससम्।शयानं भुवि निःसंज्ञं धर्मराजवशं गतम्॥ २३
अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ।अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया॥ २४
तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ।निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत्॥ २५
न न्वहं ते प्रियः पुत्र मातरं पश्य धार्मिक।किं नु नालिङ्गसे पुत्र सुकुमार वचो वद॥ २६
कस्य वापररात्रेऽहं श्रोष्यामि हृदयंगमम्।अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः॥ २७
को मां संध्यामुपास्यैव स्नात्वा हुतहुताशनः।श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम्॥ २८
कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम्।भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम्॥ २९
इमामन्धां च वृद्धां च मातरं ते तपस्विनीम्।कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम्॥ ३०
तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति।श्वो मया सह गन्तासि जनन्या च समेधितः॥ ३१
उभावपि च शोकार्तावनाथौ कृपणौ वने।क्षिप्रमेव गमिष्यावस्त्वया हीनौ यमक्षयम्॥ ३२
ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम्।क्षमतां धर्मराजो मे बिभृयात्पितरावयम्॥ ३३
अपापोऽसि यथा पुत्र निहतः पापकर्मणा।तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम्॥ ३४
यान्ति शूरा गतिं यां च संग्रामेष्वनिवर्तिनः।हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज॥ ३५
यां गतिं सगरः शैब्यो दिलीपो जनमेजयः।नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक॥ ३६
या गतिः सर्वसाधूनां स्वाध्यायात्पतसश्च या।भूमिदस्याहिताग्नेश्च एकपत्नीव्रतस्य च॥ ३७
गोसहस्रप्रदातॄणां या या गुरुभृतामपि।देहन्यासकृतां या च तां गतिं गच्छ पुत्रक।न हि त्वस्मिन्कुले जातो गच्छत्यकुशलां गतिम्॥ ३८
एवं स कृपणं तत्र पर्यदेवयतासकृत्।ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया॥ ३९
स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः।आश्वास्य च मुहूर्तं तु पितरौ वाक्यमब्रवीत्॥ ४०
स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात्।भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः॥ ४१
एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता।आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः॥ ४२
स कृत्वा तूदकं तूर्णं तापसः सह भार्यया।मामुवाच महातेजाः कृताञ्जलिमुपस्थितम्॥ ४३
अद्यैव जहि मां राजन्मरणे नास्ति मे व्यथा।यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम्॥ ४४
त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिः।तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम्॥ ४५
पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम्।एवं त्वं पुत्रशोकेन राजन्कालं करिष्यसि॥ ४६
तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः।यदहं पुत्रशोकेन संत्यक्ष्याम्यद्य जीवितम्॥ ४७
यदि मां संस्पृशेद्रामः सकृदद्यालभेत वा।न तन्मे सदृशं देवि यन्मया राघवे कृतम्॥ ४८
चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते।दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम्॥ ४९
अतस्तु किं दुःखतरं यदहं जीवितक्षये।न हि पश्यामि धर्मज्ञं रामं सत्यपराक्यमम्॥ ५०
न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम्।मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः॥ ५१
पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम्।धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम्॥ ५२
सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च।सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम्॥ ५३
निवृत्तवनवासं तमयोध्यां पुनरागतम्।द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा॥ ५४
अयमात्मभवः शोको मामनाथमचेतनम्।संसादयति वेगेन यथा कूलं नदीरयः॥ ५५
हा राघव महाबाहो हा ममायास नाशन।राजा दशरथः शोचञ्जीवितान्तमुपागमत्॥ ५६
तथा तु दीनं कथयन्नराधिपःप्रियस्य पुत्रस्य विवासनातुरः।गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः॥ ५७
इति श्रीरामायणे अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८