॥ ॐ श्री गणपतये नमः ॥

५६ सर्गः

एवं तु क्रुद्धया राजा राममात्रा सशोकयाश्रावितः परुषं वाक्यं चिन्तयामास दुःखितः

तस्य चिन्तयमानस्य प्रत्यभात्कर्म दुष्कृतम्यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना

अमनास्तेन शोकेन रामशोकेन प्रभुःदह्यमानस्तु शोकाभ्यां कौसल्यामाह भूपतिः

प्रसादये त्वां कौसल्ये रचितोऽयं मयाञ्जलिःवत्सला चानृशंसा त्वं हि नित्यं परेष्वपि

भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वाधर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम्

सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरनार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम्

तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम्कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम्

मूद्र्ह्णि बद्ध्वा रुदती राज्ञः पद्ममिवाञ्जलिम्संभ्रमादब्रवीत्त्रस्ता त्वरमाणाक्षरं वचः

प्रसीद शिरसा याचे भूमौ निततितास्मि तेयाचितास्मि हता देव हन्तव्याहं हि त्वया

नैषा हि सा स्त्री भवति श्लाघनीयेन धीमताउभयोर्लोकयोर्वीर पत्या या संप्रसाद्यते१०

जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम्पुत्रशोकार्तया तत्तु मया किमपि भाषितम्११

शोको नाशयते धैर्यं शोको नाशयते श्रुतम्शोको नाशयते सर्वं नास्ति शोकसमो रिपुः१२

शयमापतितः सोढुं प्रहरो रिपुहस्ततःसोढुमापतितः शोकः सुसूक्ष्मोऽपि शक्यते१३

वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यतेयः शोकहतहर्षायाः पञ्चवर्षोपमो मम१४

तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धतेअदीनामिव वेगेन समुद्रसलिलं महत्१५

एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचःमन्दरश्मिरभूत्सुर्यो रजनी चाभ्यवर्तत१६

अथ प्रह्लादितो वाक्यैर्देव्या कौसल्यया नृपःशोकेन समाक्रान्तो निद्राया वशमेयिवान्१७

इति श्रीरामायणे अयोध्याकाण्डे षट्पञ्चाशः सर्गः५६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved