उषित्वा रजनीं तत्र राजपुत्रावरिंदमौ।महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति॥ १
प्रस्थितांश्चैव तान्प्रेक्ष्य पिता पुत्रानिवान्वगात्।ततः प्रचक्रमे वक्तुं वचनं स महामुनिः॥ २
अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम्।तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम्॥ ३
ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम्।विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम्॥ ४
क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम्।पलाशबदरीमिश्रं राम वंशैश्च यामुनैः॥ ५
स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया।रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः।इति पन्थानमावेद्य महर्षिः स न्यवर्तत॥ ६
उपावृत्ते मुनौ तस्मिन्रामो लक्ष्मणमब्रवीत्।कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते॥ ७
इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ।सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम्॥ ८
तौ काष्ठसंघाटमथो चक्रतुः सुमहाप्लवम्।चकार लक्ष्मणश्छित्त्वा सीतायाः सुखमानसम्॥ ९
तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम्।ईषत्संलज्जमानां तामध्यारोपयत प्लवम्॥ १०
ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम्।तीरजैर्बहुभिर्वृक्षैः संतेरुर्यमुनां नदीम्॥ ११
ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात्।श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम्॥ १२
कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम्।इति सीताञ्जलिं कृत्वा पर्यगछद्वनस्पतिम्॥ १३
क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ।बहून्मेध्यान्मृगान्हत्वा चेरतुर्यमुनावने॥ १४
विहृत्य ते बर्हिणपूगनादितेशुभे वने वारणवानरायुते।समं नदीवप्रमुपेत्य संमतंनिवासमाजग्मुरदीनदर्शनः॥ १५
इति श्रीरामायणे अयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९