॥ ॐ श्री गणपतये नमः ॥

४४ सर्गः

विशालान्कोसलान्रम्यान्यात्वा लक्ष्मणपूर्वजःआससाद महाबाहुः शृङ्गवेरपुरं प्रति

तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम्ददर्श राघवो गङ्गां पुण्यामृषिनिसेविताम्

हंससारससंघुष्टां चक्रवाकोपकूजिताम्शिंशुमरैश्च नक्रैश्च भुजंगैश्च निषेविताम्

तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथःसुमन्त्रमब्रवीत्सूतमिहैवाद्य वसामहे

अविदूरादयं नद्या बहुपुष्पप्रवालवान्सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे

लक्षणश्च सुमन्त्रश्च बाढमित्येव राघवम्उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः

रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनःरथादवातरत्तस्मात्सभार्यः सहलक्ष्मणः

सुमन्त्रोऽप्यवतीर्यैव मोचयित्वा हयोत्तमान्वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः

तत्र राजा गुहो नाम रामस्यात्मसमः सखानिषादजात्यो बलवान्स्थपतिश्चेति विश्रुतः

श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम्वृद्धैः परिवृतोऽमात्यैर्ज्ञातिभिश्चाप्युपागतः१०

ततो निषादाधिपतिं दृष्ट्वा दूरादवस्थितम्सह सौमित्रिणा रामः समागच्छद्गुहेन सः११

तमार्तः संपरिष्वज्य गुहो राघवमब्रवीत्यथायोध्या तथेदं ते राम किं करवाणि ते१२

ततो गुणवदन्नाद्यमुपादाय पृथग्विधम्अर्घ्यं चोपानयत्क्षिप्रं वाक्यं चेदमुवाच १३

स्वागतं ते महाबाहो तवेयमखिला महीवयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः१४

भक्ष्यं भोज्यं पेयं लेह्यं चेदमुपस्थितम्शयनानि मुख्यानि वाजिनां खादनं ते१५

गुहमेव ब्रुवाणं तं राघवः प्रत्युवाच अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम्१६

पद्भ्यामभिगमाच्चैव स्नेहसंदर्शनेन भुजाभ्यां साधुवृत्ताभ्यां पीडयन्वाक्यमब्रवीत्१७

दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैःअपि ते कूशलं राष्ट्रे मित्रेषु धनेषु १८

यत्त्विदं भवता किंचित्प्रीत्या समुपकल्पितम्सर्वं तदनुजानामि हि वर्ते प्रतिग्रहे१९

कुशचीराजिनधरं फलमूलाशनं माम्विद्धि प्रणिहितं धर्मे तापसं वनगोचरम्२०

अश्वानां खादनेनाहमर्थी नान्येन केनचित्एतावतात्रभवता भविष्यामि सुपूजितः२१

एते हि दयिता राज्ञः पितुर्दशरथस्य मेएतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः२२

अश्वानां प्रतिपानं खादनं चैव सोऽन्वशात्गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति२३

ततश्चीरोत्तरासङ्गः संध्यामन्वास्य पश्चिमाम्जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम्२४

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणःसभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः२५

गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन्अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः२६

तथा शयानस्य ततोऽस्य धीमतोयशस्विनो दाशरथेर्महात्मनःअदृष्टदुःखस्य सुखोचितस्य सातदा व्यतीयाय चिरेण शर्वरी२७

इति श्रीरामायणे अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः४४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved