॥ ॐ श्री गणपतये नमः ॥

४३ सर्गः

रामोऽपि रात्रिशेषेण तेनैव महदन्तरम्जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन्

तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवाउपास्य शिवां संध्यां विषयान्तं व्यगाहत

ग्रामान्विकृष्टसीमांस्तान्पुष्पितानि वनानि पश्यन्नतिययौ शीघ्रं शरैरिव हयोत्तमैः

शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम्राजानं धिग्दशरथं कामस्य वशमागतम्

हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनीतीक्ष्णा संभिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते

या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम्वन वासे महाप्राज्ञं सानुक्रोशमतन्द्रितम्

एता वाचो मनुष्याणां ग्रामसंवासवासिनाम्शृण्वन्नतिययौ वीरः कोसलान्कोसलेश्वरः

ततो वेदश्रुतिं नाम शिववारिवहां नदीम्उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम्

गत्वा तु सुचिरं कालं ततः शीतजलां नदीम्गोमतीं गोयुतानूपामतरत्सागरंगमाम्

गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैःमयूरहंसाभिरुतां ततार स्यन्दिकां नदीम्१०

महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरास्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत्११

सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशःहंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः१२

कदाहं पुनरागम्य सरय्वाः पुष्पिते वनेमृगयां पर्याटष्यामि मात्रा पित्रा संगतः१३

नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवनेरतिर्ह्येषातुला लोके राजर्षिगणसंमता१४

तमध्वानमैक्ष्वाकः सूतं मधुरया गिरातं तमर्थमभिप्रेत्य ययौवाक्यमुदीरयन्१५

इति श्रीरामायणे अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः४३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved