॥ ॐ श्री गणपतये नमः ॥

४१ सर्गः

ततस्तु तमसा तीरं रम्यमाश्रित्य राघवःसीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्

इयमद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम्वनवासस्य भद्रं ते नोत्कण्ठितुमर्हसि

पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततःयथानिलयमायद्भिर्निलीनानि मृगद्विजैः

अद्यायोध्या तु नगरी राजधानी पितुर्ममसस्त्रीपुंसा गतानस्माञ्शोचिष्यति संशयः

भरतः खलु धर्मात्मा पितरं मातरं मेधर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति

भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनःनानुशोचामि पितरं मातरं चापि लक्ष्मण

त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता

अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम्एतद्धि रोचते मह्यं वन्येऽपि विविधे सति

एवमुक्त्वा तु सौमित्रं सुमन्त्रमपि राघवःअप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच

सोऽश्वान्सुमन्त्रः संयम्य सूर्येऽस्तं समुपागतेप्रभूतयवसान्कृत्वा बभूव प्रत्यनन्तरः१०

उपास्यतु शिवां संध्यां दृष्ट्वा रात्रिमुपस्थिताम्रामस्य शयनं चक्रे सूतः सौमित्रिणा सह११

तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम्रामः सौमित्रिणां सार्धं सभार्यः संविवेश १२

सभार्यं संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणःकथयामास सूताय रामस्य विविधान्गुणान्१३

जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविःसूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्१४

गोकुलाकुलतीरायास्तमसाया विदूरतःअवसत्तत्र तां रात्रिं रामः प्रकृतिभिः सह१५

उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्१६

अस्मद्व्यपेक्षान्सौमित्रे निरपेक्षान्गृहेष्वपिवृक्षमूलेषु संसुप्तान्पश्य लक्ष्मण साम्प्रतम्१७

यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तनेअपि प्राणानसिष्यन्ति तु त्यक्ष्यन्ति निश्चयम्१८

यावदेव तु संसुप्तास्तावदेव वयं लघुरथमारुह्य गच्छामः पन्थानमकुतोभयम्१९

अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनःस्वपेयुरनुरक्ता मां वृक्षमूलानि संश्रिताः२०

पौरा ह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः तु खल्वात्मना योज्या दुःखेन पुरवासिनः२१

अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम्रोचते मे महाप्राज्ञ क्षिप्रमारुह्यतामिति२२

सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैःयोजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत्२३

मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचःउदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे२४

मुहूर्तं त्वरितं गत्वा निर्गतय रथं पुनःयथा विद्युः पौरा मां तथा कुरु समाहितः२५

रामस्य वचनं श्रुत्वा तथा चक्रे सारथिःप्रत्यागम्य रामस्य स्यन्दनं प्रत्यवेदयत्२६

तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदःशीघ्रगामाकुलावर्तां तमसामतरन्नदीम्२७

संतीर्य महाबाहुः श्रीमाञ्शिवमकण्टकम्प्रापद्यत महामार्गमभयं भयदर्शिनाम्२८

प्रभातायां तु शर्वर्यां पौरास्ते राघवो विनाशोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः२९

शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततःआलोकमपि रामस्य पश्यन्ति स्म दुःखिताः३०

ततो मार्गानुसारेण गत्वा किंचित्क्षणं पुनःमार्गनाशाद्विषादेन महता समभिप्लुतः३१

रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनःकिमिदं किं करिष्यामो दैवेनोपहता इति३२

ततो यथागतेनैव मार्गेण क्लान्तचेतसःअयोध्यामगमन्सर्वे पुरीं व्यथितसज्जनाम्३३

इति श्रीरामायणे अयोध्याकाण्डे एकचत्वारिंशः सर्गः४१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved