महामात्रवचः श्रुत्वा रामो दशरथं तदा।अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत्॥ १
त्यक्तभोगस्य मे राजन्वने वन्येन जीवतः।किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः॥ २
यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः।रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्॥ ३
तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते।सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे॥ ४
खनित्रपिटके चोभे ममानयत गच्छतः।चतुर्दश वने वासं वर्षाणि वसतो मम॥ ५
अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्।उवाच परिधत्स्वेति जनौघे निरपत्रपा॥ ६
स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते।सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह॥ ७
लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे।तापसाच्छादने चैव जग्राह पितुरग्रतः॥ ८
अथात्मपरिधानार्थं सीता कौशेयवासिनी।समीक्ष्य चीरं संत्रस्ता पृषती वागुरामिव॥ ९
सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः।गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्।कथं नु चीरं बध्नन्ति मुनयो वनवासिनः॥ १०
कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना।तस्थौ ह्यकुषला तत्र व्रीडिता जनकात्मज॥ ११
तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः।चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्॥ १२
तस्यां चीरं वसानायां नाथवत्यामनाथवत्।प्रचुक्रोश जनः सर्वो धिक्त्वां दशरथं त्विति॥ १३
स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्।कैकेयि कुशचीरेण न सीता गन्तुमर्हति॥ १४
ननु पर्याप्तमेतत्ते पापे रामविवासनम्।किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः॥ १५
एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम्।अवाक्शिरसमासीनमिदं वचनमब्रवीत्॥ १६
इयं धार्मिक कौसल्या मम माता यशस्विनी।वृद्धा चाक्षुद्रशीला च न च त्वां देवगर्हिते॥ १७
मया विहीनां वरद प्रपन्नां शोकसागरम्।अदृष्टपूर्वव्यसनां भूयः संमन्तुमर्हसि॥ १८
इमां महेन्द्रोपमजातगर्भिणींतथा विधातुं जनमीं ममार्हसि।यथा वनस्थे मयि शोककर्शितान जीवितं न्यस्य यमक्षयं व्रजेत्॥ १९
इति श्रीरामायणे अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३