॥ ॐ श्री गणपतये नमः ॥

३१ सर्गः

रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियःप्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श

आलोक्य तु महाप्राज्ञः परमाकुल चेतसम्राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत्

अयं पुरुषव्याघ्र द्वारि तिष्ठति ते सुतःब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम्

त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमःसर्वान्सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते

गमिष्यति महारण्यं तं पश्य जगतीपतेवृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः

सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमःआकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्

सुमन्त्रानय मे दारान्ये केचिदिह मामकाःदारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम्

सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम्

एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञयाप्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम्

अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाःकौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः१०

आगतेषु दारेषु समवेक्ष्य महीपतिःउवाच राजा तं सूतं सुमन्त्रानय मे सुतम्११

सूतो राममादाय लक्ष्मणं मैथिलीं तदाजगामाभिमुखस्तूर्णं सकाशं जगतीपतेः१२

राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम्उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः१३

सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिःतमसंप्राप्य दुःखार्तः पपात भुवि मूर्छितः१४

तं रामोऽभ्यपातत्क्षिप्रं लक्ष्मणश्च महारथःविसंज्ञमिव दुःखेन सशोकं नृपतिं तदा१५

स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनिहाहा रामेति सहसा भूषणध्वनिमूर्छितः१६

तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौपर्यङ्के सीतया सार्धं रुदन्तः समवेशयन्१७

अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम्उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम्१८

आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नःप्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम्१९

लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम्कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ चेच्छतः२०

अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानदलक्ष्मणं मां सीतां प्रजापतिरिव प्रजाः२१

प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेःउवाच रर्जा संप्रेक्ष्य वनवासाय राघवम्२२

अहं राघव कैकेय्या वरदानेन मोहितःअयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम्२३

एवमुक्तो नृपतिना रामो धर्मभृतां वरःप्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः२४

भवान्वर्षसहस्राय पृथिव्या नृपते पतिःअहं त्वरण्ये वत्स्यामि मे कार्यं त्वयानृतम्२५

श्रेयसे वृद्धये तात पुनरागमनाय गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम्२६

अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथामातरं मां संपश्यन्वसेमामद्य शर्वरीम्तर्पितः सर्वकामैस्त्वं श्वःकाले साधयिष्यसि२७

अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम्लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत्२८

प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यतिअपक्रमणमेवातः सर्वकामैरहं वृणे२९

इयं सराष्ट्रा सजना धनधान्यसमाकुलामया विसृष्टा वसुधा भरताय प्रदीयताम्३०

अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः३१

नैवाहं राज्यमिच्छामि सुखं मैथिलीम्त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ३२

पुरं राष्ट्रं मही केवलामया निसृष्टा भरताय दीयताम्अहं निदेशं भवतोऽनुपालयन्वनं गमिष्यामि चिराय सेवितुम्३३

मया निसृष्टां भरतो महीमिमांसशैलखण्डां सपुरां सकाननाम्शिवां सुसीमामनुशास्तु केवलंत्वया यदुक्तं नृपते यथास्तु तत्३४

मे तथा पार्थिव धीयते मनोमहत्सु कामेषु चात्मनः प्रियेयथा निदेशे तव शिष्टसंमतेव्यपैतु दुःखं तव मत्कृतेऽनघ३५

तदद्य नैवानघ राज्यमव्ययं सर्वकामान्न सुखं मैथिलीम् जीवितं त्वामनृतेन योजयन्वृणीय सत्यं व्रतमस्तु ते तथा३६

फलानि मूलानि भक्षयन्वनेगिरींश्च पश्यन्सरितः सरांसि वनं प्रविश्यैव विचित्रपादपंसुखी भविष्यामि तवास्तु निर्वृतिः३७

इति श्रीरामायणे अयोध्याकाण्डे एकत्रिंशत्तमः सर्गः३१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved