ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम्।गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम्॥ १
तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्।सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः॥ २
ततः संध्यामुपास्याशु गत्वा सौमित्रिणा सह।जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम्॥ ३
तमागतं वेदविदं प्राञ्जलिः सीतया सह।सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम्॥ ४
जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः।सहेम सूत्रैर्मणिभिः केयूरैर्वलयैरपि॥ ५
अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्।सुयज्ञं स तदोवाच रामः सीताप्रचोदितः॥ ६
हारं च हेमसूत्रं च भार्यायै सौम्य हारय।रशनां चाधुना सीता दातुमिच्छति ते सखे॥ ७
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम्।तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि॥ ८
नागः शत्रुं जयो नाम मातुलो यं ददौ मम।तं ते गजसहस्रेण ददामि द्विजपुंगव॥ ९
इत्युक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत्।रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः॥ १०
अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः।सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम्॥ ११
अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ।अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः॥ १२
कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति।आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित्॥ १३
तस्य यानं च दासीश्च सौमित्रे संप्रदापय।कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः॥ १४
सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः।तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा॥ १५
शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा।व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु॥ १६
ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम्।यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा॥ १७
अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः।संप्रदाय बहु द्रव्यमेकैकस्योपजीविनः॥ १८
लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम।अशून्यं कार्यमेकैकं यावदागमनं मम॥ १९
इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम्।उवाचेदं धनध्यक्षं धनमानीयतामिति।ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः॥ २०
ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः।द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्योऽभ्यदापयत्॥ २१
तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः।आ पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत्॥ २२
स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत्।निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः।उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति॥ २३
तमुवाच ततो रामः परिहाससमन्वितम्।गवां सहस्रमप्येकं न तु विश्राणितं मया।परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि॥ २४
स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम्।आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः॥ २५
उवाच च ततो रामस्तं गार्ग्यमभिसान्त्वयन्।मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम॥ २६
ततः सभार्यस्त्रिजटो महामुनिर्गवामनीकं प्रतिगृह्य मोदितः।यशोबलप्रीतिसुखोपबृंहिणीस्तदाशिषः प्रत्यवदन्महात्मनः॥ २७
इति श्रीरामायणे अयोध्याकाण्डे एकोनत्रिंशत्तमः सर्गः ॥ २९